पूर्वम्: ३।२।६९
अनन्तरम्: ३।२।७१
 
सूत्रम्
दुहः कब् घश्च॥ ३।२।७०
काशिका-वृत्तिः
दुहः कब् घश् च ३।२।७०

दुहेर् धातोः सुप्युपपदे कप् प्रत्ययो भवति, घकारश्चान्तादेशः। कामदुघा धेनुः। अर्घदुघा। धर्मदुघ।
न्यासः
दुहः कब्घश्च। , ३।२।७०

"कामदुधा"। "घर्मदुघा"। कामं दोग्धीति कामदुघा। गर्मं दोग्धीति घर्मदुधा॥
बाल-मनोरमा
दुहः कब्धश्च ७८९, ३।२।७०

दुहः कुब्धश्च। सुप्युपपदे दुहेः कप्स्यात्, प्रकृतेर्घश्चान्तादेश इत्यर्थ-। कामदुघेति। "धेनु"रिति शेषः। कामम् = अपेक्षितं दुग्धे इति विग्रहः।

तत्त्व-बोधिनी
दुहः कः द्व्यश्च ६५४, ३।२।७०

कामदुघेति। "धेनु"रिति शेषः। कामं दोग्धीति विग्रहः।