पूर्वम्: ३।२।७५
अनन्तरम्: ३।२।७७
 
सूत्रम्
क्विप् च॥ ३।२।७६
काशिका-वृत्तिः
क्विप् च ३।२।७६

सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। उखायाः स्रंसते उखास्रत्। पर्णध्वत्। वाहात् भ्रश्यति, वाहाभ्रट्। अन्येषम् अपि दृश्यते ६।३।१३६ इति दीर्घः।
लघु-सिद्धान्त-कौमुदी
क्विप् च ८०५, ३।२।७६

अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। बाहभ्रट्॥
न्यासः
क्विप् च। , ३।२।७६

"निरुपपदेत्रभ्यश्च" इति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते। "उखारुआत्। प्रर्णध्वत्" इति। "रुआन्सु ध्वन्सु अवरुआन्सने" (धा।पा७५४,७५५) , "अनिदिताम्" ६।४।२४ इत्यादिनानुनासिकलोपः। "वसुरुआन्सुध्वंस्वनडुहां दः" ८।२।७२ इति दत्वम्, "वाऽडवसाने" ८।४।५५ इति चत्र्वम्। "वाहाभ्रट्" इति। "भ्रन्शु अधः पतने" (धा।पा।१२२५), व्रश्चादिसूत्रेण ८।२।३६ षत्वम्, पूर्ववज्जश्त्वम्, चत्र्वम्, "अन्येषामपि दृश्यते" ६।३।३६ इति दीर्घः॥
बाल-मनोरमा
क्विप् च ७९३, ३।२।७६

क्विप् च। अयमपीति। सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि लोके च क्विप् दृश्यते इत्यर्थः। नन्वनेनैव सिद्धे "सत्सूद्विषे"ति सूत्रं व्यर्थमित्यत आह-- सत्सूद्विषेति। "सत्सूद्विषे"ति सूत्रं तु "क्विप् चे"त्यस्यैव प्रपञ्च इत्यर्थः। उखारुआदिति। उखायाः रुआंसत इति विग्रहः। रुआंसेः क्विप्, "अनिदिता"मिति नलोपः, "वसुरुआंसु" इति दत्वम्। एवं पर्णध्वत्()। पर्णात् द्वंसत इति विग्रहः। वाहभ्रडिति। वाहात् भ्रश्यति इति विग्रहः। व्रश्चादिना षः।

तत्त्व-बोधिनी
क्विप् च ६५८, ३।२।७६

वाहभ्रडिति। वाहाद()आआद्भ्रश्यतीति विग्रहः। वृत्तौ तु वहाभ्रडिति पाठः। वहः = स्कन्धः, "अन्येषामपि दृश्यते" इति पूर्वपदान्तस्य दीर्घ इति हरदत्तः।