पूर्वम्: ३।२।८२
अनन्तरम्: ३।२।८४
 
सूत्रम्
आत्ममाने खश्च॥ ३।२।८३
काशिका-वृत्तिः
आत्ममाने खश् च ३।२।८३

आत्मनो मननम् आत्ममानः। आत्ममाने वर्तमानान् मन्यतेः सुप्युपपदे खश्प्रत्ययो भवति। चकाराण् णिनिः च। यदा प्रत्ययार्थः कर्ता आत्मानम् एव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदा ऽयं विधिः। दर्शनीयम् आत्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी। पण्डितं मन्यः, पण्डितमानी। आत्ममाने इति किम्? दर्शनीयमनी देवदत्तस्य यज्ञदत्तः।
लघु-सिद्धान्त-कौमुदी
आत्ममाने खश्च ८०८, ३।२।८३

स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥
न्यासः
आत्ममाने खश्च। , ३।२।८३

"आत्ममाने" इति। मननम् = मानः, भावे घञ्। आत्मनो मानः आत्ममानः। "कर्त्तृकर्मणोः कृति" २।३।६५ इति षष्ठी, "कृद्योगा च षष्ठी समस्यते"(वा। ८३) इति समासः। अथ कत्र्तरि षष्ठी कस्मान्न भवति? आत्मग्रहणसामथ्र्यात्। न ह्रात्मनोऽन्यस्य पदार्थस्य मतिः सम्भवति, तस्या आत्मगुणत्वात्। अथात्मशब्दोऽयं न सुखादिगुणमाचष्टे, कि तर्हि? पराभावम्। परो यो न भवति स आत्मेति, तथाप्यात्मग्रहणमनर्थकम्। एवं हि मन्तुर्या मतिर्या मतिस्त्तत्र वत्र्तमानादित्येषोऽर्थः स्यात्, स चायुक्तः,क सर्वा हि मतिः परमपि मन्यमानस्य मन्तुरेव भवति, तस्मात् कर्मण्येव षष्ठी। "यदा प्रत्ययार्थः कत्र्ता" इत्यादि। कथं पुनरेष एवार्थः, कर्म कत्र्ता च युज्यते? शक्तिभेदात्, यथा-- पीयमानं मधु मदयतीति। खशः खकारः "अरुर्द्विषदजन्तस्य" ६।३।६६ इति मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः॥
बाल-मनोरमा
आत्ममाने खश्च ८०३, ३।२।८३

आत्मामने खश्च। आत्मनः = स्वस्य, मानः = मननम् - आत्ममानः। तदाह-- स्वकर्मके मनने इति। पण्डितम्भन्य इति। खशः शित्त्वेन सार्वधातुकत्वाच्छ्यन्। खित्त्वात् "अरुर्द्विषटदिति मुम्। तानादिकस्य मनेग्र्रहणे तु उविकरणः स्यात्। कालीमात्मानं मन्यते इत्यर्थे खशि श्यनि कृते आह-- खित्यनव्यवयस्येति। "स्त्रियाः पुंव"दिति पुंवत्त्वं बाधित्वा परत्वाद्ध्रस्व इत्यर्थः। दिवामन्येति। अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम्।

तत्त्व-बोधिनी
आत्ममाने खश्च ६६३, ३।२।८३

आत्ममाने। मननं मानः, भावे घञ्, आत्मनो मान इति कर्मणि षष्ठ()आ समासः। स्वपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थस्तदाह-- स्वकर्मक इत्यादि। चादिति। ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत्। अत्राहुः-- चकारेणाऽवच्छेदाय णिनिः समुच्चीयते। तेन "करणे यजः" इत्यादौ णिनिरेवाऽनुवर्तते न तु खश्ष एवं चोक्तप्रयोजनानुरोधेन "चानुकृष्टं नोत्तरत्रे" तीह न प्रवर्तते इति। पण्डितमात्मानमिति। एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं, पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम्। आत्ममाने किम्?। दर्शनीयमानी देवदत्तो यज्ञदत्तस्य। कालिंमन्येति। "स्त्रियाः पुंव"दिति प्राप्तं पुंवद्भावं बाधित्वा पर्तवाद्ध्रस्वः। यत्त्वत्र "क्यङ्मानिनो"रिति प्राप्तः पुंवद्भाव इति प्रसादकृतोक्तं, तद्रभसोक्तमेव, मानिन्रूपाऽभावस्य स्पष्टत्वात्। दिवामन्येति। अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिस्वभावात्कर्मत्वम्।