पूर्वम्: ३।२।८५
अनन्तरम्: ३।२।८७
 
सूत्रम्
कर्मणि हनः॥ ३।२।८६
काशिका-वृत्तिः
करमणि हनः ३।२।८६

करणि उपपदे हन्तेर् धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।
न्यासः
कर्मणि हनः। , ३।२।८६

"पितृव्यघाती" इति। "हनस्तोऽचिण्णलोः" ७।३।३२ इति तत्वम्। "हो हन्तेर्ञ्णिन्नेषु" ७।३।५४ इति घत्वम्, "सौ च" ६।४।१३ इति दीर्घत्वम्। "कुत्सितग्रहणं कत्र्तव्यम्िति प्रत्ययर्थस्य विशेषणम्। गृह्रतेऽनेनेति ग्रहणम्। तत् पुनव्र्याख्यानम्। एतदुक्तं भवति-- येन कुत्सितः कत्र्ता प्रत्ययार्थो गृह्रते तद्व्याख्यानं कत्र्तव्यमिति। तत्रेदं व्याख्यानम्-- वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कत्र्ता कुत्स्यते, तत्रव, नान्यत्र॥
बाल-मनोरमा
कर्मणि हनः ८०७, ३।२।८६

कर्मणि हनः। कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात्। पितृव्यघातीति। पितृव्यं हतवानित्यर्थः। "हनस्तः" इति तः, "हो हन्ते"रिति हस्य घः।

तत्त्व-बोधिनी
कर्मणि हनः ६६७, ३।२।८६

कर्मणि हनः। पितृव्यघातीति। अत्र काशिका "कुत्सितग्रहणं कर्तव्यम्। इह माभूत्, चोरं हतवा"निति। यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः।