पूर्वम्: ३।२।८
अनन्तरम्: ३।२।१०
 
सूत्रम्
हरतेरनुद्यमनेऽच्॥ ३।२।९
काशिका-वृत्तिः
हरतेरनुद्यमने ऽच् ३।२।९

हरतेर् धातोरनुद्यमने वर्तमानात् कर्मणि उपपदे अच् प्रत्ययो भवति। अणो ऽपवादः। उद्यमनम् उत्क्षेपणम्। अंशं हरति अंशहरः। रिक्थहरः। अनुद्यमने इति किम्? भारहारः। अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेरुपसङ्ख्यानम्। शक्तिग्रहः। लाङ्गलग्रहः। अङ्कुशग्रहः। यष्टिग्रहः। तोमरग्रहः। घटग्रहः। घटीग्रहः। धनुर्ग्रहः। सूत्रे च धार्यर्थे। सूत्रग्रहः। सूत्रं धारयति इत्यर्थः। सूत्रग्राहः एव अन्यः।
न्यासः
हरतेरनुद्यमनेऽच्। , ३।२।९

"उद्यमनमुत्क्षेपणम्" इति। अधः स्थितस्य व्सतुन ऊध्र्वं नयनमित्यर्थः। "अंशहरः" इति। अंशं स्वीकरोतीत्यर्थः, न तूत्क्षेपयति। "अच्प्रकरणे" इत्यादि। "प्रातिपदिकग्रहणे {लिङ्गिविशिष्टस्य" इति मुद्रितः पाठः।} लिङ्गविशिष्टस्यापि ग्रहणम्" (व्या।प।२९) इति घटग्रहणेनैव घटीग्रहणे सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्। तस्य तु प्रयोजनम् -- "दित्यदित्यादित्यपत्त्युत्तरपदाण्ण्यः"४।१।८५ इत्यत्र वक्ष्यते। उपसंख्यानशब्दस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन शक्त्यादिषूपपदेषु ग्रहेरज्भविष्यति। "सूत्रे च" इत्यादि। धारेरर्थो धाय्र्यर्थः। तत्र वर्तमानाद्()ग्रहेः सूत्रे चोपपदेऽच उपसंख्यानं प्रतिपादनं कत्र्तव्यम्। प्रतिपादनं तावत्तदेव। "सूत्रग्राह एवान्यः" इति। यः सूत्रं केवलमुपादत्ते न धारयति, तत्राणेव भवति॥