पूर्वम्: ३।२।९०
अनन्तरम्: ३।२।९२
 
सूत्रम्
अग्नौ चेः॥ ३।२।९१
काशिका-वृत्तिः
अग्नौ चेः ३।२।९१

कर्मणि इत्येव। अग्नौ कर्मण्युपपदे चिनोतेर् धातोः क्विप् प्रत्ययो भवति। अग्निचित्, अग्निचितौ, अग्निचितः। अत्र अपि पूर्ववच् चतुर्विधो नियम इष्यते।
न्यासः
अग्नौ चेः। , ३।२।९१

"अत्रापि पूर्ववत्ित्यादि। तत्र कालनियमः-- अग्नौ चिनोतेर्भूते क्विबव, नान्य इति; तेना()ग्न चितवानित्यर्थविवक्षायामग्निचाय इति न भवति। धातुनियमः-- अग्नावेव चिनोतेर्नान्यस्मिन्नुपपद इति; तेनेष्टकाचिदितति न भवति। उपपदनियमः-- अग्नौ चिनोतेरेव नान्यस्माद्धातोरिति; तेनाग्निकृदिति न भवति। प्रत्ययनियमः-- अग्नौ चिनोतेर्भूत एव क्विप्, नान्यस्मिन् काले; तेन वत्र्तमानभविष्यतोरग्निचिदिति न भवति॥
बाल-मनोरमा
अग्नौ चेः ८११, ३।२।९१

अग्नौ चेः। ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ-। अग्निचिदिति। अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः।