पूर्वम्: ३।२।९१
अनन्तरम्: ३।२।९३
 
सूत्रम्
कर्मण्यग्न्याख्यायाम्॥ ३।२।९२
काशिका-वृत्तिः
कर्मण्यग्न्याख्यायाम् ३।२।९२

चेः कर्मणि इति वर्तते। कर्मणि उपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायां, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसम्प्रत्ययार्थम्। अग्न्यर्थो हि इष्टकाचय उच्यते श्येनचितिति।
न्यासः
कर्मण्यग्न्याख्यायाम्। , ३।२।९२

"कर्मणि हनः" ३।२।८६ इत्यत उपपदविशेषमे कर्मग्रहणेऽनुवत्र्तमाने यत् पुनरिह कर्मग्रहणं तस्य प्रत्ययार्थत्वं विज्ञायत इत्याह-- "कर्मण्येव कारके" इति। "धातूपपद" इत्यादिना समुदायोपाधित्क्मेतदग्न्याख्याग्रहणस्य दर्शयति। "आख्याग्रहणं रूढिसम्प्रत्ययार्थम्" इत्यादि। अग्निशब्दोऽयमग्निसामान्यवाची, अत्रासत्याख्याग्रहणे विशेषो न विज्ञायते-- कस्येह ग्रहणमिति, रूढिसम्प्रत्ययार्थमाख्याग्रहणं क्रियते। किं पुनः कारणं तदर्थमाख्याग्रहणं क्रियत इत्याह-- "अग्न्यर्थो हि" इत्यादि। अग्न्यर्थो य इष्टकानां रचनाविशेषः स श्येनचिदित्युच्यते, तत्रैवायं प्रत्यय इष्यते। स कथं तत्रैव लभ्यते? यस्य ग्रहणं क्रियते, त()स्मश्च सति प्रसिद्धो गृह्रमाणोऽग्न्यर्थो य इष्टकानां रचनाविशेषः स एव प्रत्ययार्थो वाच्यतया विज्ञायते, नान्यः॥
बाल-मनोरमा
कर्मण्यग्न्याख्यायाम् ८१२, ३।२।९२

कर्मण्यग्न्याख्यायाम्। कर्मणीत्यनुवृत्तमुपपदसमर्पकम्। अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम्। तथा चाऽत्र कर्तरीति न सम्बध्यते। तदाह--कर्मण्युपपदे इत्यादि। चिनोतेरिति। भूतार्थादित्यपि बोध्यम्। श्येन इवेति। श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः। श्येनाकृतिक इति यावत्।