पूर्वम्: ३।२।९२
अनन्तरम्: ३।२।९४
 
सूत्रम्
कर्मणीनिर्विक्रियः॥ ३।२।९३
काशिका-वृत्तिः
कर्मणि इनिर् विक्रियः ३।२।९३

कर्मणि उपपदे विपूर्वत् क्रीणातेर् धातोः इनिः प्रत्ययो भवति। कर्मणि इति वर्तमाणे पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति, धान्यविक्रायः।
न्यासः
कर्मणीनिर्विक्रियः। , ३।२।९३

"कर्मणीति वत्र्तमाने" इत्यादि। "कर्मणिहनः" ३।२।८६ इत्यतः। "पुनः कर्मग्रहणम्" इत्यादि। यत् कर्म क्रियासम्बन्धमनुभवत् कर्त्तुः कुत्सामावहति,तत् कुत्सानिमित्तं कर्म यथा स्यादित्येवमर्थम्। कर्मग्रहणेऽनुवत्र्तमाने पुनः कर्मग्रहणमनन्तरसूत्रे यत् कर्मप्रत्ययार्थत्वेऽनिष्टं कर्मग्रहणं तन्निवृत्त्यर्थम्। कर्मग्रहणं कस्मान्न भवति? तस्य स्वरितत्वादेवानुवृत्तेः। "सोमविक्रयी" इति। सोमविक्रयणं शास्त्रे प्रतिषिध्यत इति सोमाख्यं कर्म विक्रयणक्रियया सम्बध्यमानं विक्रेतुः कुत्सामावहति। "धान्यविक्रायः" इति। "कर्मण्यण्" ३।२।१
बाल-मनोरमा
कर्मणीनि विक्रियः ८१३, ३।२।९३

कर्मणीनि विक्रियः। "इनि" इत्यविभक्तिकम्। विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम्। कुत्सितेति। कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः। सोमविक्रयीति। सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः।