पूर्वम्: ३।२।९३
अनन्तरम्: ३।२।९५
 
सूत्रम्
दृशेः क्वनिप्॥ ३।२।९४
काशिका-वृत्तिः
दृशेः क्वनिप् ३।२।९४

कर्मणि इत्येव। दृशेः धातोः कर्मणि उपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। अन्येभ्यो ऽपि दृश्यन्ते ३।२।७५ इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तरनिवृत्त्यर्थम्।
लघु-सिद्धान्त-कौमुदी
दृशेः क्वनिप् ८११, ३।२।९४

कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥
न्यासः
दृशेः क्वनिप्। , ३।२।९४

"प्रत्ययान्तरनिवृत्यर्थम्" इति। प्रत्ययान्तरमणादि, तस्य निवृत्त्यर्थम्। निवृत्ते सत्यपि प्रत्ययः प्रत्ययान्तरत्वे भवत्येव-- परलोकं दृष्टवानिति। अत्र च कारणं "ब्राहृभ्रूण" ३।२।८७ सूत्र एव उक्तम्॥
बाल-मनोरमा
दृशेः क्वनिप् ८१४, ३।२।९४

दृशेः क्वनिप्। "आतो मनिन्क्वनिब्वनिपश्च", "अन्येभ्योऽपि दृश्यन्ते" इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च। निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः। पारं दृष्टवान्।

तत्त्व-बोधिनी
दृशेः क्वनिप् ६७१, ३।२।९४

दृशेः क्वनिप्। "अन्येब्योऽपि दृश्यन्ते" इति सिद्धे नियमार्थमिदं-- "क्वनिबेव यथा "स्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां, न वा अणादय" इति। सोपपदप्रत्ययस्यैव नियमेव निवर्तनान्निष्ठा तु भवत्येव --पारं दृष्टवानिति। एवं स्थिते "वि()आदृ()आनयना वयमेवे"त्यादौ वि()आं पश्यन्ति वि()आदृ()आआनि, तानि नयनानि येषां ते वि()आदृ()आनयना इत्येवं क्वनिबन्तस्य लटा विग्रहेऽपि न क्षतिः। प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिव्र्याख्यातत्वात्, कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तत्वादिति दिक्।