पूर्वम्: ३।२।९७
अनन्तरम्: ३।२।९९
 
सूत्रम्
पञ्चम्यामजातौ॥ ३।२।९८
काशिका-वृत्तिः
पञ्चम्याम् अजातौ ३।२।९८

पञ्चम्यन्त उपपदे जातिवर्जिते जनेर् डः प्रत्ययो भवति। बुद्धिजः। संस्कारञः। दुःखजः। अजातौ इति किम्? हस्तिनो जातः। अश्वाजातः।
न्यासः
पञ्चम्यामजातौ। , ३।२।९८

"बुद्धिजः" इति। "जनिकृर्त्तुः प्रकृतिः" १।४।३० इति बुद्धेरपादानत्वादपादाने पञ्चमी।, तदस्योपपदत्वम्। बुद्ध्यादिशब्दा जातिशब्दा न भवन्ति; बुद्ध्यादीनामात्मगुणत्वात्॥
बाल-मनोरमा
पञ्चम्यामजातौ ८१८, ३।२।९८

पञ्चम्यामजातौ। जनेरिति। "भूतार्था"दिति शेषः। संस्कारज[म] इति। संस्काराज्जात्[म] इत्यर्थः।