पूर्वम्: ३।२।१८८
अनन्तरम्: ३।३।२
 
सूत्रम्
उणादयो बहुलम्॥ ३।३।१
काशिका-वृत्तिः
उणादयो बहुलम् ३।३।१

वर्तमान इत्येव, संज्ञायाम् इति च। उणादयः प्रत्ययाः वर्तमाने ऽर्थे संज्ञायां विषये बहुलं भवन्ति। यतो विहितास् ततो ऽन्यत्र अपि भवन्ति। केचिदविहिता एव प्रयोगत उन्नीयन्ते। कृवापाजिमिस्वदिसाध्यशूभ्य उण्। कारुः। वायुः। पायुः। जायुः। मायुः। स्वादुः। साधुः। आशुः। बाहुलकं प्रकृतेस् तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम्। कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु। १। नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्। यन् न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम्। २। संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। कार्याद् विद्यादनुबन्धम् एतच् छास्त्रम् उणादिषु। ३।
लघु-सिद्धान्त-कौमुदी
उणादयो बहुलम् ८५१, ३।३।१

एते वर्तमाने संज्ञायाम् च बहुलं स्युः। केचिदविहिता अप्यूह्याः॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु॥
लघु-सिद्धान्त-कौमुदी
इत्युणादयः ८५१, ३।३।१

लघु-सिद्धान्त-कौमुदी
अथोत्तरकृदन्तम् ८५१, ३।३।१