पूर्वम्: ३।३।९
अनन्तरम्: ३।३।११
 
सूत्रम्
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्॥ ३।३।१०
काशिका-वृत्तिः
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३।३।१०

भविष्यति इत्येव। क्रियार्थायां क्रियायाम् उपपदे धातोर् भविस्यति कले तुमुन्ण्वुलौ प्रत्ययौ भवतः। भोक्तुं व्रजति। भोजको व्रजति। भुजिक्रियार्थः व्रजिरत्रोपपदम्। क्रियायाम् इति किम्? भिक्षिष्य इत्यस्य जटाः। क्रियार्थायाम् इति किम्? धावतस्ते पतिष्यति दण्डः। अथ किमर्थं ण्वुल् विधीयते यावता ण्वुल्तृचौ ३।१।१३३ इति सामान्येन विहित एव सो ऽस्मिन्नपि विषये भविस्यति? लृटा क्रियार्थौपपदेन बाध्येत। वा ऽसरूपविधिना सो ऽपि भविस्यति? एवं तर्हि एतद् ज्ञाप्यते, क्रियायाम् उपपदे क्रियार्थायां वा ऽसरूपेण तृजादयो न भवन्ति इति। तेन कर्ता व्रजति, विक्षिपो व्रजति इत्येवम् आदि निवर्त्यते।
लघु-सिद्धान्त-कौमुदी
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ८५२, ३।३।१०

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। मान्तत्वादव्ययत्वम्। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति॥
न्यासः
तुमुन्?ण्वुलौ क्रियायां क्रियार्थायाम्। , ३।३।१०

"भिक्षिष्य इत्यस्य जटाः" इति। लृट्, अनुदात्तेत्त्वादात्मनेपदम्ुत्तमपुरुषैकवचनम्, इट्, टेरेत्त्वम्, "अतो गुणे" ६।१।९४ पररूपत्वम्। अत्रास्ति भिक्षिक्रियार्थमुपपदं जटाशब्दः, न तु जटाशब्दः क्रियावचनः; जटानां द्रव्यत्वात्। "धावतस्ते पतिष्यति दण्डः"इति। "धाव् गतिशुद्धयोः"(धा।पा।६०१), लट्, तस्य शत्रादेशः, षष्ठ()एकवचनम्। अथ वा "सृ गतौ" (धा।पा।९३५)इत्यस्य प्राघ्रादिसूत्रेण ७।३।७८ धावादेशः। अस्त्यत्र धावतिक्रियोपपदम्, न तु क्रियार्थः। अर्थशब्दो ह्रयं प्रयोजनवचनः, यच्च यदुद्दिश्य प्रवत्र्तते तत्तस्य प्रयोजनं भवति, न चासौ दण्डपतनमुद्दिश्य धावति, किं तर्हि? कार्यान्तरार्थम्। "अथ" इत्यादि चोद्यम्। "सामान्येन विहित एव"इति। भविष्यत्यन्यत्र च काले क्रियायां क्रियार्थायामुपपदेऽन्यत्र चाविशेषेण विधानात्। "लृटा" इत्यादि परिहारः। "लृट शेषे च" ३।३।१३ इति लृटं वक्ष्यति, तेन विशेषविहितेन लृटा बाध्यते, तन्मा भूतत्तस्य बाधेति पुनरिह विधीयते। अथ तुमुन् क्रियार्थोपपदेन बाध्यत इत्येतत् क्समान्नोक्तम्? भिन्नार्थत्वात्। न हि भिन्नार्थयोर्बाध्यबाधकभावो भवति, भिन्नार्थो च ण्वुल्तुमुनौ। तथा हि-- कत्र्तरि ण्वुल्, तुमुन् पुनर्भावे। कथं ज्ञायते? "तुमर्थे सेसेन्" ३।४।९ इत्यत्र तुमर्थग्रहणात्। यदि तुमुन् "कत्र्तरि कृत्" ३।४।६७ इत्यतो वचनात् कत्र्तरि स्यात्,ततः सेसेन्प्रभृतयोऽपि तत्रैव भविष्यन्तीति तुमर्थग्रहणं न कुर्यात्, कृतवांश्च, ततस्तुमर्थग्रहणादवसीयते-- तुमुन् कत्र्तरि न भवति। न चान्यार्थो निर्द्दिश्यते, तत्र "अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (पु।प।९०) इति भाव एव तुमुन् भवतीति विज्ञायते। यदुक्तम्-- लृटा क्रियार्थोपपदेन बाध्यत इति,तद्विघटयितुमाह-- "वासरूपविधिना"इत्यादि। "एवं तर्हि" इत्यादि। एतेन ज्ञापकार्थतां ण्वुल्विधानस्याचष्टे। यदि हि क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयः स्युर्ण्वुलपि तृजर्थाभिधायित्वाद्वासरूपविधिना भविष्यन्तीति पुनरिह तन्न विदध्यात्, विहितवांश्च;ततस्तेन ण्वुल्विधानेनास्मिन् विषये वासरूपेण तृजादयो न भवन्तीत्येषोऽर्थो विज्ञाप्यते। "तेन" इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। "कत्र्ता" इति। तृच्। "विक्षिपः" इति। "इगुपधज्ञाप्रीकिरः कः"३।१।१३५। तुमुनो नकार आद्युदात्तार्थः, उकार उच्चारणार्थः। ण्वुलो लकारो लिति प्रत्ययात् पूर्वस्योदात्तार्थः, णकारो वृद्ध्यर्थः॥
तत्त्व-बोधिनी
तुमुन्?ण्वुलौ क्रियायां क्रियार्थायाम् १५०८, ३।३।१०

तुमुन्ण्वुलौ। क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्याम्। अत्रेदं बोध्यं-- तुमुन्ण्वुलोः कृत्त्वाऽविशेषेऽपि "अव्य्यकृतो भावे" इति वचनाद्भावे तुमुन्। ण्वुल्तु कर्तरि। क्रियायामिति सप्तमीनिर्दशात्तद्वाचकस्य यातीत्यादेः "तत्रोपपदं सप्तमीस्थमित्युपपदत्वमिति। कृष्णं द्रष्टुमिति। कृष्णकर्मकं यद्भविष्यद्दर्शनं तत्प्रयोजकं यानमित्यर्थः। कृष्णं दर्शक इति। कृष्णकर्मकभविष्यद्दर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः। क्रियायां किम्?। भिक्षिष्ये इत्यस्य जटाः। इह भिक्षार्था जटाः, ताश्च द्रव्यं, न तु क्रिया, "भिक्षितुं जटा" इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः। क्रियार्थायां किम्?। "धावतस्ते पतिष्यति दण्डः"। अस्त्यत्र धावत इति क्रिया, न त्वसौ दण्डपतनार्था। धावनं तु दण्डपतने हेतुर्भवति न तूद्देश्यमिति दिक्।