पूर्वम्: ३।३।१००
अनन्तरम्: ३।३।१०२
 
सूत्रम्
इच्छा॥ ३।३।१०१
काशिका-वृत्तिः
इच्च्या ३।३।१०१

इषेः धातोः शः प्रत्ययो यगभावश्च निपात्यते। इच्छा। परिचर्यापरिसर्यामृगयाटाट्यानाम् उपसङ्ख्यानम्। परिचर्या। परिसर्या। मृगया। अटाट्या। जागर्तेरकारो वा। जागरा, जागर्या।
लघु-सिद्धान्त-कौमुदी
इच्छा ८६९, ३।३।१०१

इषेर्निपातोऽयम्॥
न्यासः
इच्छा। , ३।३।१०१

इषर्भावे शप्रत्ययो भवति; अभिधानशक्तिस्वाभाव्यात्, न कारके। "यगभावश्च" इति। "सार्वधातुके यक्" ३।१।६७ इति यक् स्यात्, अतस्तदभावो निपात्यते। "इच्छा" इति। "इषुगमि" ७।३।७७ इत्यादिना छत्वम्। "परिचर्या" इत्यादि। "चर गत्यर्थः" (धा।पा।५५९), "सृ गतौ" (धा।पा।९६५), "मृग अन्वेषणे" (धा।पा।१९००) चुरादावदन्तः, "अट पट गतौ" (धा।पा।२९५,२९६)--एभ्यो भावे शः, पूर्ववद्यक्, सत्र्तेर्गुणः। मृगयतेरकारलोपाभावः, "णेरनिटि" ६।४।५१ इति णिलोपः। "अटाट()आ" इति। अटतेर्द्विवचनात्त्वञ्चाभ्यासस्य। "जागत्र्तेरकारो वा" इति। यदा शस्तदा "सार्वधातुके यक्" ३।१।६७, "जाग्रोऽविचिण्णल्ङित्सु" ७।३।८५ इति गुणः। "जागरा" इति यदा त्वकारः॥
तत्त्व-बोधिनी
इच्छा १५६२, ३।३।१०१

इच्छा। इषेर्भाव इति। न त्वकर्तरि कारकेऽपीत्यर्थः। अतएव करणेऽर्थे इष्यतेऽनया इष्टिरिति प्रागुक्तम्। यकारनिवृत्तिरिति। हलादिः शेषस्तु नास्ति, षाष्ठाद्वित्वे धातुद्वत्वे वाऽभ्याससंज्ञास्वीकारात्। इह च तदुभयाऽभावादिति भावः। अटाट()एति। यदा तु अटतेर्यङन्तादप्रत्ययादित्यकारस्तदाऽतोलोपे "यस्य हलः" इति यलोपेऽटाटेति रूपं बोध्यम्। द्वित्वे हलादिः शेषे सति "दीर्घोऽकितः इत्यभ्यासस्य दीर्घप्रवृत्तेः। जागर्तेरिति। शे परतः "सार्वधातुके यक्"। "जाग्रोऽविचिण्ण"लिति गुणः।