पूर्वम्: ३।३।१०१
अनन्तरम्: ३।३।१०३
 
सूत्रम्
अ प्रत्ययात्॥ ३।३।१०२
काशिका-वृत्तिः
अ प्रत्ययात् ३।३।१०२

प्रत्ययान्तेभ्यो धातुभ्यः स्तिर्याम् अकारः प्रत्ययो भवति। क्तिनो ऽपवादः। चिकीर्षा। जिहीर्षा। पुत्रीया। पुत्रकाम्या। लोलूया। कण्डूया।
लघु-सिद्धान्त-कौमुदी
अ प्रत्ययात् ८७०, ३।३।१०२

प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥
न्यासः
अ प्रत्ययात्। , ३।३।१०२

"धातोः" ३।१।९१ इत्यधिकारात् प्रत्ययग्रहणं धातोर्विशेषणं विज्ञायत इत्याह-- "प्रत्ययान्तेभ्यो धातुभ्यः" इति। "चिकीर्षा" इति। चिकीर्षशब्दात् सन्नन्तादप्त्र्ययः। "पुत्रीया" इति। "सुप आत्मनः क्यच्" ३।१।८, "क्यचि च" ७।४।३३ इतीत्त्वम्। "पुत्रकाम्या" इति। "काम्यच्च" ३।१।९ इति काम्यच्। "लोलूया" इति। "धातोरेकाचो हलादेः"३।१।२२ इति यङ॥