पूर्वम्: ३।३।१०३
अनन्तरम्: ३।३।१०५
 
सूत्रम्
षिद्भिदादिभ्योऽङ्॥ ३।३।१०४
काशिका-वृत्तिः
षिद्भिदादिभ्यो ऽङ् ३।३।१०४

षिद्भ्यः भिदादिभ्यश्च स्त्रियाम् अङ् प्रत्ययो भवति। गणपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते। जृ̄ष् जरा। त्रपूष् त्रपा। भिदादिभ्यः खल्वपि भिदा। छिदा। विदा। क्षिपा। गुहा गिर्योषध्योः। श्रद्धा। मेधा। गोधा। आरा। हारा। कारा। क्षिया। तारा। धारा। लेखा। रेखा। चूडा। पीड। वपा। वसा। सृजा। क्रपेः सम्प्रसारणं च कृपा। भिदा विदारणे। भित्तिः अन्या। छिदा द्वैधीकरणे। छित्तिः अन्या। आरा शस्त्र्याम्। आर्तिः अन्या। धारा प्रपाते। धृतिः अन्या।
न्यासः
षिद्भिदादिभ्योऽङ्। , ३।३।१०४

"गणपरिपठितेषु"इत्यादि। भिदादयोऽङन्ता एव गणे पठ()न्ते, तेभ्योयदि पुनरिहाङ विहितः प्रातिपदिकेभ्यो विहितः स्यात्, तच्चायुक्तें स्यात्, धात्वधिकारात्,तस्माते तेषु याः प्रकृतयोऽवयवभूतास्ता निष्कृष्य पृथक्कृत्वा "षिद्भिदादिभ्योऽङ्" इति भिदादिग्रहणेन निर्दिश्यन्ते। ताः पुनः "भिदिर् विदारणे" (धा।पा।१४३९), "छिदिर् द्वैधीकरणे" (धा।पा।१४४०), "विद ज्ञाने" (धा।पा।१०६४), "क्षिप प्रेरणे" (धा।पा।१२८५), "गुहू संवरणे" (धा।पा।८९६), "डुधाञ् धारणपोषणयोः" (धा।पा।१०९२), "{मिदृ मेधाहिंसनयोः"-धा।पा।}{मेदृ सङ्गमे च।धा।पा।} मेधृ हिंसासंक्लेशनयोः"(धा।पा।८६८,८६९), "ऋ गतौ" (धा।पा।१०९८), "ह्मञ् हरणे" (धा।पा।८९९) "हुकृञ् करणे" (धा।पा।१४७२), "क्षि क्षये"(धा।पा।२३६), अथवा "क्षि निवासगत्योः" (धा।पा।१४०७), "तृ प्लवनतरणयोः" (धा।पा।९६९), "घृञ् धारणे" (९००), "लिख अक्षरविन्यासे" (धा।पा।१३६५), "चुद {सञ्चोदने-धा।पा।}समुच्छ्रये(धा।पा।१५९२), "पीड अवगाहने" (धा।पा।१५४४), "डुवप {बीजतन्तुसन्ताने, छेदनेऽपि#ऋधा।पा।} बीजतन्तुसन्ताने" (धा।पा।१००३), "वस निवासे" (धा।पा।१९४२), "{मृजू-धा।पा।}मृजूष् शुद्धौ" (धा।पा।१०६६),"क्रप {कृपायां गत#औ च-धा।पा।} (धा।पा।७७१) इत्येते वेदितव्याः। यदि तर्हि प्रकृतयो निर्दिश्यन्ते भिदादीनां गणे पाठोऽनर्थकः? अथ पाठः क्रियते प्रत्ययविधानमनर्थकम्? गणे पाठस्तावन्नानर्थकः; प्रसिद्ध्युपसंग्रहार्थत्वात्। प्रसिद्ध्युसंग्रहस्तु यत्र भिदादयः समुदायाः प्रसिद्धास्तत्रैवैषां साधुत्वं यथा स्यात्, अन्यत्र मा भूदित्येवमर्थः। तेन यदुक्तं भाष्ये "भिदा विदारणे" (ग।सू।२९) इत्येवमादि, तदुपपन्नं भवति। न च प्रत्ययविधानमनर्थकम्; असन्देहार्थत्वात्। असति हि तस्मिन् सन्देहः स्यात--किमेषु "इगुपधज्ञाप्रीकिरः कः" (३।१।१३५) इत्येवमादिना लक्षणान्तरेण कप्रभृतादयः प्रत्यया विहिताः? उताङ्प्रत्यय एव? इति। ततर् पूर्वस्मिन् पक्षे स्त्रीत्वविवक्षायां क्तिन् प्रसज्यते, कस्मात्? असन्देहार्थत्वात्। अतः प्रत्ययविधानं नानर्थकम्। "आरा" इति। "ऋदृशोऽङि गुणः" ७।४।१६। "गुहा गिर्य्योषध्योः"इति। गुहाशब्दो गिर्य्योषध्योरेव साधुर्भवति, नान्यत्र। गिरिशब्दश्चात्र "समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वत्र्तन्ते" (व्या।पा।सू।८५) इत्येकदेशे वत्र्तते। गुहेति गिरेः कश्चिदेवैकदेश उच्यते। गुहा नामौषधिः। अन्यत्र गुहेः क्तिन् भवति-- गूढिरिति। "हो ढः" ८।२।३१, "झतस्तथोर्घोऽघः" ८।२।४०, "ष्टुना ष्टुः" ८।४।४० "ढो ढे लोपः" ८।३।१३, "ढ्रलोपे पूर्वस्य दीर्घोऽणः" ६।३।११०। "हारा, कारा, धारा"इति। गुणे कृते दीर्घत्वं निपात्यते। "लेखा, रेखा" इति। लिखेर्गुणो निपात्यते। पक्षे लकारसय् रेफश्चादेशः। "चूडा" इति। चोदयतेर्डत्वादेशो निपात्यते, उपधाया दीर्घश्च। "आरा शस्त्र्()याम्िति। आराशब्दः शस्त्र्यां साधुर्भवति, अत्रापि गुणे कृते दीर्घत्वं निपात्यते। "आर्त्तिरन्या" इति। अत्र्तेराङपूर्वस्य क्तिन्। "उपसर्गादृति धातौ" ६।१।८८ इत्येकादेशः, रपरत्वम्। "धारा प्रपाते" इति। यत्र प्रपातनं तत्र धारेति, यथा-- जलधारा, क्षीरधारेति॥
तत्त्व-बोधिनी
षिद्भिदादिभ्योऽङ्। १५६४, ३।३।१०४

षिद्भिदा। कथं तर्हि "मुखाब्जगन्धलब्धे" रिति माघः। "प्रेक्षोपलब्धि"रित्यमरश्च। षित्त्वादङि "लभे"त्येव ह्रुचितम्। सत्यम्। "अनर्थकास्तु प्रतिवर्णमनुपलब्धे" रिति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः। विस्तरस्त्विह मनोरमायां बोध्यः। भिदेति। एवमादयोऽदन्ताः समुदाया एव गणे पठ()न्ते तत्र ये प्रकृतिभागा भिद-छिद इत्यादयस्ते आदिशब्देन सूत्रे निर्दिष्टाः। गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य कवचिदलाक्षणिककार्यस्य सङ्ग्रहार्थः। भित्तिरन्येति। भिद्यत इति भित्तिः = कुड()म्। छिदेति। द्वैधीकरण एवायम्। अन्यत्र तु छित्तिश्छिद्रम्। मृजेति। भृजू शुद्धौ, अस्याऽषित्त्वाद्भिदादौ पाठः।