पूर्वम्: ३।३।१०४
अनन्तरम्: ३।३।१०६
 
सूत्रम्
चिन्तिपूजिकथिकुम्बिचर्चश्च॥ ३।३।१०५
काशिका-वृत्तिः
चिन्तिपूजिकथिकुम्बिचर्चश् च ३।३।१०५

चिति स्मृत्याम्, पूज पूजायाम्, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने चुरादिः, एभ्यो धातुभ्यः युचि प्राप्ते स्त्रियाम् अङ् प्रत्ययो भवति। चिन्ता। पूजा। कथा। कुम्बा। चर्चा। चकारात् युचपि भवति। चिन्तना।
न्यासः
चिन्तिपूजिकथिकुम्बचर्चश्च। , ३।३।१०५

"चुरादिः"इति। एतत् "चिति स्मृत्याम्" (धा।पा।१५३५) इत्यादिभिः प्रत्येकमभिसम्बध्यते। "युचि प्राप्ते" इति। "ण्याससश्रन्थो युच्" ३।३।१०७ इत्यनेन। यस्तु भ्वादौ कुम्बिः पठ()ते ततो "गुरोश्च हलः" ३।३।१०३ इत्यकारेण भवितव्यम्। न च कुम्बेरकारेऽङि वा सति कश्चिद्विशेषोऽस्तीति नासाविह ग्रहणं प्रयोजयति॥
तत्त्व-बोधिनी
चिन्तिपूजिकथिकुम्बिचर्चश्च १५६५, ३।३।१०५

चिन्तिपूजि। चकारोऽनुक्तसमुच्चयार्थः। तेन तोलयतेस्तुलेति हरदत्तः। अतएव "तुलां यदारोहति दन्तवाससा" इति नैषधकृदाह। युचोऽपवादैति। "ण्यासश्रन्थे"ति वक्ष्यमाणस्येत्यर्थः।