पूर्वम्: ३।३।१०८
अनन्तरम्: ३।३।११०
 
सूत्रम्
संज्ञायाम्॥ ३।३।१०९
काशिका-वृत्तिः
संज्ञायाम् ३।३।१०९

संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भवति। उद्दालकपुष्पभञ्जिका। वरणपुष्पप्रचायिका। अभ्यूषखादिका। आचोषखादिका। शालभञ्जिका। तालभञ्जिका।
न्यासः
संज्ञायाम्। , ३।३।१०९

"उद्दालकपुष्पभञ्जिका" इति। "नित्यं क्रीडाजीविकयोः" २।२।१७ इति षष्ठीसमासः। षष्ठी पुनरत्र "कर्त्तृकर्मणोः कृति" २।३।६५ इति कृद्योगलक्षणा॥
तत्त्व-बोधिनी
संज्ञायाम् १५६८, ३।३।१०९

संज्ञायाम्। अधिकरणे ण्वुलर्थोऽयमारम्भः। उद्दालकः = श्लेष्मातकः, तस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा तथा भञ्जनं भञ्जिका। भावे ण्वुल्। उद्दालकपुष्पाणां भञ्जिकेत्यन्ये। सूत्रे आख्यानशब्दस्याऽल्पाच्तरत्वेन पूर्वनिपाते कृते व्याख्यानस्य प्रश्नपूर्वकतयाऽर्थप्राप्तकममनुसृत्य व्याचष्टे-- परिप्रश्ने आख्याने चेति।