पूर्वम्: ३।३।१०
अनन्तरम्: ३।३।१२
 
सूत्रम्
भाववचनाश्च॥ ३।३।११
काशिका-वृत्तिः
भाववचनाश् च ३।३।११

भविष्यति इत्येव। भावे ३।३।१८ इति प्रकृत्य ये घञादयो विहितास् ते च भाववचनाः भविस्यति काले क्रियायाम् उपपदे क्रियार्थायां भवन्ति। किमर्थम् इदं यावता विहिता एव ते? क्रियर्थौपपदे विहितेन अस्मिन् विषये तुमुना बाध्येरन्। वा ऽसरूपविधिश्च अत्र न अस्ति इत्युक्तम्। अथ वचनग्रहणं किमर्थम्? वाचका यथा स्युः। कथं च वाचका भवन्ति? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिता यदि ताभ्यस् तथा एव भवन्ति, नासामञ्जस्येन इति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति।
लघु-सिद्धान्त-कौमुदी
नपुंसके भावे क्तः ८७३, ३।३।११

न्यासः
भाववचनाश्च। , ३।३।११

"भाववचनाः" इति। ब्राउवन्तीति वचनाः, बहुलचनात् कत्र्तरि ल्युट्। भावस्य वचना भाववचनाः। भाववचनत्वं पुनस्तेषां भावाधिकारे विधानादिति दर्शयितुमाह--"भावे इति प्रकृत्य"इत्यादि। प्रकृत्य अधिकृत्येत्यर्थः। "घञादयः"इति। आदिशब्देनाजबादीनां ग्रहणम्। "किमर्थम्" इत्यादि चोद्यम्। "क्रियार्थोपपदे विहितेन" इत्यादि परिहारः। स्यादेतत्-- वासरूपविधिना ते भविष्यन्ति। अत आह-- "वासरूपविधिश्च नास्तीत्युक्तम्" इति। एतच्च पूर्वसूत्र उक्तम्। "अथ " इत्यादि। भाव इत्येतावद्वक्तव्यम्; एवं ह्रुच्यमाने सतीदमेव घञादीनां विधायकं स्यात्,ततश्च ते धातुमात्रादविशेधेम प्रसज्येरन्; विशेधानुपादानात्। वचनग्रहणादयमर्थो लभ्यते-- भावे ये विहिताः प्रत्ययास्ते तथा भवन्ति यथा भावस्य वाचका भवन्तीति। यथा च ते भावस्य वाचका भवन्ति तथा प्रश्नपूर्वकं दर्शयितुमाह--"कथञ्च" इत्यादिना। "नामसामञ्जस्येन" इति। न व्यतिरेकेण,नानियमेनेत्यर्थः। तत्र केचिदाहुः- वचनग्रहणाद्यैरेव विधिवाक्यैर्भाव एषां विधानं तैरेव क्रियायामुपपदे क्रियार्थायां भवन्ति, एवञ्चते वाचका भवन्ति, नान्यथेति। अन्ये त्वाहुः-- एतदेव सूत्रं विधायकम्; वचनग्रहणसामथ्र्यात्। अनेनापि तथैषां विधानं भवति यथा स्वैर्विधिवाक्यैः। यदि भावे हि तद्विधिः, नान्यस्मिन्नपि विषये भविष्यति। तत् तस्मात् पुनर्विधीयत इति॥