पूर्वम्: ३।३।१०९
अनन्तरम्: ३।३।१११
 
सूत्रम्
विभाषाऽ‌ऽख्यानपरिप्रश्नयोरिञ् च॥ ३।३।११०
काशिका-वृत्तिः
विभाऽअषख्यानपरिप्रश्नयोरिञ् च ३।३।११०

पूर्वं परिप्रश्नः, पश्चादाख्यानम्। सूत्रे ऽल्पाच्तरस्य पूर्वनिपातः। परिप्रश्ने आख्याने च गम्यमाने धतोः इञ् प्रत्ययो भवति, चकारात् ण्वुलपि। विभाषग्रहणात् परो ऽपि यः प्राप्नोति, सो ऽपि भवति। कां त्वं कारिमकार्षीः, कां कारिकाम् अकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, का कृतिमकार्षीः? सर्वां कारिमकार्षम्, सर्वां कारिकाम् अकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम्। कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम्। एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां यचिकाम्, कां पाचिम्, कां पाचिकाम् कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिम् इति द्रष्टव्यम्। आख्यानपरिप्रश्नयोः इति किम्? कृतिः। हृतिः।
न्यासः
विभाषाख्यानपरिप्रश्नयोरिञ् च। , ३।३।११०

इह सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात् परिप्रश्नस्य; वृत्तौ तु "परिप्रश्ने चाख्याने च गम्यमाने"इति पूर्व परिप्रश्नसोयपन्यासः,पश्चादाख्यानस्य; तत्र यश्चोदयेत्--किं कारणमेवं वृत्तौ विपर्ययः कृतः? इति, तं प्रत्याह-- "पूर्वं परिप्रश्नः"इत्यादि। परिप्रश्नपूर्वकं व्याख्यानं भवति, अतो वृत्तौ पूर्वं परिप्रश्नस्य तदुदाहरणस्य चोपन्यासः कृतः, पश्चादाख्यानस्य। क्रमव्यतिक्रमे प्रयोजनाभावादित्याभिप्रायः। सूत्रे तर्हि कस्मात् पूर्वं परिप्रश्नो न निर्दिष्टः, पश्चादाख्यानमित्याह-- "सूत्रे" इत्यादि। "अल्पाच्तरम्" २।२।३४ इति सूत्रेण द्वन्द्वे पदानां क्रमस्य नियत्वादल्पाच्तरस्याख्यानशब्दस्य सूत्रे पूर्वनिपातः कृत इति दर्शयति। "कां कारिम्िति। इञ्। "कां कारिकाम्" इति। ण्वुल्। "कां क्रियाम्" इति। "कृञः श च" ३।३।१०० इति शः। "कां कृत्याम्" इति। तत्र चकारात् क्यप्। "कां कृतिम्" इति। योगविभगात् क्तिन् कृतः। "कां गणिम्" इति। इञ्। "गण संख्याने" (धा।पा।१८५३) चुरादावदन्तः पठ()ते। "कां गणिकाम्" इति। ण्वुल्। "गणनाम्िति। युच्। एवम्--"कां पाचिम्" इत्यादि। "कां पाचिमकार्षीः", "कां पाचिकाम्" , "कां पचाम्"। "कां याजिम्" , "कां याजिकाम्" इत्यादि, कामिष्टिम्। "कां पाठिम्" , "कां पाठिकाम्" "कां पठितिम्" इति॥