सूत्रम्
ल्युट् च॥ ३।३।११५
काशिका-वृत्तिः
ल्युट् च ३।३।११५
नपुंसकलिङ्गे भावे धातोः ल्युट् प्रत्ययो भवति। हसनं छात्रस्य। शोभनम्। जोपनम्। शयनम्। आसनम्। योगविभाग उत्तरार्थः।
लघु-सिद्धान्त-कौमुदी
ल्युट् च ८७४, ३।३।११५
हसितम्, हसनम्॥
न्यासः
ल्युट् च। , ३।३।११५
"योगविभाग उत्तरार्थः"इति। उत्तरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूत्॥