पूर्वम्: ३।३।१२१
अनन्तरम्: ३।३।१२३
 
सूत्रम्
अध्यायन्यायोद्यावसंहारा(धारावया)श्च॥ ३।३।१२२
काशिका-वृत्तिः
अध्यायन्यायौद्यावसंहाराऽधाराऽवायाश् च ३।३।१२२

अध्यायाऽदयः शब्दाः घञन्ता निपात्यन्ते। पुंसि संज्ञायां घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयते अस्मिनिति अध्यायः। नीयत अनेन इति न्यायः। उद्युवन्ति अस्मिनिति उद्यावः। संह्रियन्ते ऽनेन इति संहारः। आघ्रियन्ते अस्मिनिति आधारः। आवयन्ति अस्मिन्निति आवायः। चकारो ऽनुक्तसमुच्चयार्थः। अवहारः।
न्यासः
अध्यायन्यायोद्यावसंहाराधारावायाश्च। , ३।३।१२२

"अहलन्तार्थ आरम्भः"इति। हलन्तेभ्यः पूर्वसूत्रेणैव सिद्धत्वात्॥
तत्त्व-बोधिनी
अध्यायन्यायोद्यावसंहाराश्च १५७५, ३।३।१२२

अवहारेत्यादि। वृत्तिकारस्त्वाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणाऽवहारशब्दं संजग्राह, तदसंबद्धमिति स्पष्टमेव।