पूर्वम्: ३।३।१२६
अनन्तरम्: ३।३।१२८
 
सूत्रम्
कर्तृकर्मणोश्च भूकृञोः॥ ३।३।१२७
काशिका-वृत्तिः
कर्तृकर्मणोश् च भूक्र्ञोः ३।३।१२७

भवतेः करोतेश्च धातोः यथासङ्ख्यं कर्तरि कर्मणि च उपपदे, चकारादीषदादिषु च खल् प्रत्ययो भवति। ईषदाढ्यम्भवं भवता। दुराढ्यम्भवम्। ईषदाढ्यङ्करः। स्वाढ्यङ्करो देवदत्तो भवता। कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्। इह मा भूत्, स्वाढ्येन भूयते।
न्यासः
कर्त्तृकर्मणोश्च भूकृञोः। , ३।३।१२७

कर्त्तृकर्मणोरुपपदत्वं भवति, न तु प्रत्ययार्थम्। यदि च तयोः प्रत्ययार्थत्वं स्यादीषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, ततश्च खित्करणमनर्थकं स्यात्; अनव्ययस्य खित्कार्यविधानात्। ईषादादीनाञ्चाव्ययत्वात्; तस्मादतोऽपि खित्करणम्। उपपदे कर्त्तृकर्मणी, न तु प्रत्ययार्थावेतावित्यवसीयते। अत्र च कर्त्तृकर्मणी ईषदादयश्च न प्रत्येकं प्रत्ययस्य निमित्तम्, किं तर्हि? तत्समुदायः। चकारेण ह्रतर् सन्नियोगः क्रियते, तेन कर्त्तृकर्मणोरीषदादीनाञ्च युगपदुपपदत्वं भवति; नान्यथा। यद्येवम्, कथं द्वयोरुपपदयोर्युगपत् समासः? कः पुनराह-- युगपत् समास इति? पूर्वं हि परस्योपपदस्य समासं कृत्वा पश्चात् पूर्वस्य समासो भवति। किं पुनरत्र परमुपपदम्? कर्त्तृकर्मणी। कुत एतत्? खित्करणसामथ्र्यात्। खित्करणं हि मुमर्थम्, मुमागमश्चानव्ययस्य विधीयते। तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकं स्यात्। "ईषदाढ()म्भवं भवता" इति। अकृच्छ्रमाढ()एन भयते भवतेत्यर्थः। "ईषदाढ()ङ्करो देवदत्तो भवता" इति। अकृच्छ्रमाढ्यः क्रियते देवदत्तो भवतेत्यर्थः। "कर्त्तृकर्मणोः"इत्यादि। च्व्यर्थोऽभूततद्भावः। तदर्थयोः कर्त्तृकर्मणोरुपपदयोः खल भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- प्रायग्रहणं मण्डूकप्लुतिन्यायेनानुवत्र्तते, तेन यदा कर्त्तृकर्मणी च्व्यर्थे भवतस्तदैव प्रत्ययो भवति, नान्यदेति। "स्वाढ()एन भूयते" इति। अत्र च्व्यर्थस्याविवक्षितत्वात् प्रत्ययो न भवति॥
तत्त्व-बोधिनी
कर्तृकर्मणोश्च भृकृञोः १५८१, ३।३।१२७

कर्तृकर्मणोः। चकारः संनियोगार्थः। यदा कर्तृकर्मणोरीषदादीनां च युगपत्प्रयोगस्तदैव प्रत्ययो यथा स्यात्। न च कर्तृकर्मणोः प्रत्ययार्थत्वमेवास्तु न तूपपदत्वमिति वाच्यम्, ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयथ्र्यापत्तेः। मुमर्थं हि तत्। मुम् चानव्यस्य विधीयते। तस्मात्कर्तृकर्मणोरिति उपपदत्वमेव। तदेतदाह-- ईषदादिषु चेति। कर्तृकर्मणी द्वे, भूकृञौ च द्वौ, तयोर्यथासङ्ख्यं प्राप्तम्, स्वीकृतं च काशिकाकृता, कन्यासकारहरदत्तादिभिश्च, प्राचापि तथैवोक्तं, तद्वयाख्यातृभिश्चानुमोदितं, तत्सर्वं नादर्तव्यम्,यथासङ्ख्यसूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह-- यथासङ्ख्यं नेष्यत इति। ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति, भूकृञोरवयवहितत्वं क्रतृकर्मणोरेवेष्यते न त्वीषदादीनाम्। एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः-- बहुलग्रहणानुवृत्त्या दुराढ()म्भव इति भाष्योदाहरणाच्चेष्टव्यवस्था सिध्यतीति। तदेतदभिप्रेत्याह--- कर्तृकर्मणि चेति। भवतेः कर्तर्युदाहरति--- अनाढ()एनाढ()एनेति। कर्मणि त्वनाढ() आढ()ओ भूयते इति विग्रहः। भाव्यते इति तदर्थः। एवमग्रेऽपि विग्रहद्वयमुन्नेयम्। अनाढ()एनाढ()एन स्वयमेव क्रियते, अनाढ() आढ्यः क्रयत इति।