पूर्वम्: ३।३।१२
अनन्तरम्: ३।३।१४
 
सूत्रम्
लृट् शेषे च॥ ३।३।१३
काशिका-वृत्तिः
लृट् शेषे च ३।३।१३

भविष्यति इत्येव। शेषः क्रियार्थौपपदादन्यः। शेषे शुद्धे भविष्यति काले, चकारात् क्रियायां च उपपदे क्रियार्थायां धातोः लृट् प्रत्ययो भवति। करिष्यामि इति व्रजति। हरिष्यामि इति व्रजति। शेषे खल्वपि करिष्यति। हरिष्यति।
न्यासः
लृट् शेषे च। , ३।३।१३

"चकारात्" इत्यादि। एतेन क्रियायां क्रियार्थायामित्यस्यानुकर्षणार्थश्चकार इति दर्शयति। "करिष्यामि" इति। "ऋद्धनोः स्ये" ७।२।७० इतीट्॥
बाल-मनोरमा
लृट् शेषे च ४२, ३।३।१३

लृट् शेषे च। "तुमुन्ण्वुलौ क्रियायां क्रियार्थाया"मिति प्रागुक्तं,ततोऽन्यः शेष इत्याह---असत्यामिति। चार्थमाह--सत्यमिति। हरदत्तस्त्वाह-- अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते। एवं च "शेषे चे"ति सुत्यजमिति। तच्चिन्त्यम्। "शयिष्यत इति स्थीयते" इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्()तुमुन्खलर्थेषु वासरूपविधेरभावात्। अत्र च ज्ञापकं "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे"त्यत्र लोटा बाधा मा भूदिति पुनः कृत्यविधि"रित्यादि कृदन्ते वक्ष्यति। इदमपि ज्ञापकमित्यन्यदेतत्। यत्तु प्राचा-- "भविष्यतीति व्रजती"त्युदाह्मतं, तदापाततः, "तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यते" इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्,न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति,भावे हि सः। समानकर्तृकेष्वेवेति च वक्ष्यते। लृडित्येतावत्सूत्रकरणेऽपि "भविष्यतीति व्रजती"त्ययं सिध्यत्येवेत्यास्तां तावत्। स्य इडिति। लृटस्तिपि "स्यतासी लृलुटो"रिति स्यप्रत्ययः। तस्य वलाद्याद्र्धधातुकत्वादिडागम इत्यर्थः। भविष्यतीति। स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वत्सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः। तसादौ भविष्यत इत्याद्यप्येवं योज्यम्। भविष्यामीत्यादौ "अतो दीर्घो यञी"ति दीर्घः। इति लृट्प्रक्रिया।

तत्त्व-बोधिनी
लृट् शेषे च ३३, ३।३।१३

"तुमुन्()ण्वुलौ क्रियायां क्रियार्थाया"मिति प्रागुक्तं, ततोऽन्यः शेष इत्याह-- असत्यामिति। हरदत्तस्त्वाह--- अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते। एवंच "शेषेचे"ति सुत्यजमिति। तच्चिन्त्यम्। "शयिष्यत इति स्थीयते"इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्()तुमुन्? खलर्थेषु वासरूपविधेरभावात्। अतर् च ज्ञापकं "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे"त्यत्र लोटा बाधा माभूदिति पुनः कृत्त्यविधि"रित्यादि कृदन्ते वक्ष्यति। इदमपि ज्ञापकमित्यन्यदेतत्॥ यत्तु प्राचा-- "भविष्यतीति व्रजती"त्युदाह्मतं, तदापाततः, "तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यतेट इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्, न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति, भावे हि सः। समानकर्तृकेष्वेवेति च वक्ष्यते। लृरडित्येतावत्सूत्रकरणेऽपि "भविष्यतीति व्रजती"त्ययं सिध्यत्येवेत्यास्तां तावत्।