पूर्वम्: ३।३।१२९
अनन्तरम्: ३।३।१३१
 
सूत्रम्
अन्येभ्योऽपि दृश्यते॥ ३।३।१३०
काशिका-वृत्तिः
अन्येभ्यो ऽपि दृश्यते ३।३।१३०

अन्येभ्यो ऽपि धातुभ्यः गत्यर्थेभ्यः छन्दसि विषये युच् प्रत्ययो दृश्यते। सुदोहनामकृणोद् ब्रह्मणे गाम्। सुवेदनामकृणोर्ब्रह्मणे गाम्। भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः। दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः।
न्यासः
अन्येभ्योऽपि दृश्यते। , ३।३।१३०

"सुदोहनम्" इति। "दुह प्रपूरणे" (धा।पा।१०१४)। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अपिशब्दोऽत्र क्रियते, स च सर्वव्यभिचारार्थः, तेन "शासु अनुशिष्टौ" (धा।पा।१०७५), "युध सम्प्रहारे" (धा।पा।११७३), "दृशिर् प्रेक्षणे" (धा।पा।९८८), "ञिधृषा प्रागल्भ्ये" (धा।पा।१२६९), "मृष तितिक्षायाम्" (धा।पा।११६४)-- इत्येतेभ्योऽपि भाषायां युज्भवतीति। कथं पुनरेतदवसितम्-- "सर्वव्यभिचारार्थोऽपिशब्द इति? सूत्रारम्भात्। यदि हि गत्यर्थव्यभिचार एवात्राभिसंहितः स्यात्, सूत्रमिदं नारभेत। पूर्वसूत्र एव च गत्यर्थग्रहणं न कुर्यात्॥