पूर्वम्: ३।३।१३१
अनन्तरम्: ३।३।१३३
 
सूत्रम्
आशंसायां भूतवच्च॥ ३।३।१३२
काशिका-वृत्तिः
आशंसायां भूतवच् च ३।३।१३२

वा इत्येव। वर्तमानसमीप्ये इति न अनुवर्तते। आशंसनम् आशंसा, अप्राप्तस्य प्रियार्थस्य प्राप्तुम् इच्छा। तस्याश्च भविष्यत्कालो विषयः। तत्र भविष्यति काले आशंसायां गम्यमानायां धातोः वा भूतवत् प्रत्यया भवन्ति, चकाराद् वर्तमानवच् च। उपाध्यायश्चेदागमत्, आगतः, आगच्छति, आगमिष्यति, एते व्याकरणम् अध्यगीष्महि, एते व्याकरणम् अधीतवन्तः, अधीमहे, अध्येष्यामहे। सामान्यातिदेशे विशेषानतिदेशाल् लङ्लिटौ न भवतः। आशंसायाम् इति किम्? आगमिष्यति।
न्यासः
आशंसायां भूतवच्च। , ३।३।१३२

"आगमत्" इति। लुङ। आगत इति निष्ठा। "अनुदात्तोपदेश" ६।४।३७ इत्यादिनानुनासिकलोपः। "अधीमहे" इति। इङो लुट्, महिङ्, अदादित्वाच्छपो २।४।७२ लुक्। "अध्यगीष्महि" इति। लुङ, "विभाषा लुङलृङोः" २।४।५० इतीङो गाङादेशः, गाङकुटादिना १।२।१ सिचो ङित्त्वात् "घुमास्था" ६।४।६६ इत्यादिनेत्त्वम्। भूतवच्चेत्यादिदेशे लङलिटावपि प्राप्नुतः, तौ कस्मान्न भवत इत्याह-- "सामान्यातिदेशे" इत्यादि। भतसामान्यातिदेशोऽयम्, भूतविशेषप्रत्ययौ च लङलिटौ। सामान्यातिदेशे विशेषस्यानतिदेशः, तेन ताविह न भवतः॥
बाल-मनोरमा
आशंसायां भूतवच्च ६१४, ३।३।१३२

आशंसायां भूतवच्च। नानुवर्तते इति। अत्र व्याख्यानमेव शरणम्। अप्राप्तस्य प्रियसय् प्राप्तीच्छा आशंसा। सा च भविष्यद्विषयैव। भूते इच्छाविरहात्। तदाह-- भविष्यति काले इति। देवश्चेदिति। देव = पर्जन्यः, अवर्षीच्चेद्धान्यमवापम्स्म। वर्षति चेद्वपामः। वर्षिष्यति चेद्वप्स्याम इत्यन्वयः। भूतवद्भावाद्भविष्यति लुङ्-- अवर्षीदिति अवाप्स्मेति च भवति। वपधातोर्लुङि उत्त्मपुरुषबहुवचने अवाप्स्मेति भवति। वृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभत्रापि लुङ। वर्तमानवत्त्वपक्षे तु लट्। तदुभयाऽभावे तु लृट्। ननु भूतवत्त्वपक्षे लङ्()लिटावपि कुतो न स्यातामित्यत आह-- सामान्यातिदेशे इति। भूतत्वसामान्ये विहितस्याऽतिदेशादनद्यतनभूतत्वविशेषविहितयोर्लङ्()लिटोर्नाऽतिदेश इत्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
आशसायां भूतवच्च ५०५, ३।३।१३२

आशंसायाम्। आशंसनमाशंसा = अप्राप्तस्य प्राप्तुमिच्छा। आशंसायां वर्तमानत्वेऽपि तद्विषयस्य वर्षादेर्भविष्यत्कालसंबन्धाद्भविष्यतीत्युक्तम्। आशंसायां किम्?। गमिष्यति।