पूर्वम्: ३।३।१३२
अनन्तरम्: ३।३।१३४
 
सूत्रम्
क्षिप्रवचने लृट्॥ ३।३।१३३
काशिका-वृत्तिः
क्षिप्रवचने लृट् ३।३।१३३

आशंसायाम् इत् येव। क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट् प्रत्ययो भवति। भूतवच् च इत्यस्य अयम् अपवादः। उपाध्यायश्चेत् क्षिप्रम् आगमिष्यति, क्षिप्रं व्याकरणम् अध्येष्यामहे। वचनग्रहणं पर्यायार्थम्। क्षिप्रम्, शीघ्रम्, आशु, त्वरितम्, अध्येष्यामहे। न इति वक्तव्ये लृड्ग्रहणं लुटो ऽपि विषये यथा स्यात्। श्वः क्षिप्रम् अध्येष्यमहे।
न्यासः
क्षिप्रवचने लृट्। , ३।३।१३३

"भूतवच्चेत्यचस्यायमपवादः"इति। न प्राप्ते भूतवच्चेत्यस्मिन्नस्यारम्भात्। अथ वचनग्रहणं किमर्थम्? यावता क्षिप्रे लृडित्येनेनैव सर्वं सिद्धमित्यत आह-- "वचनग्रहणं पर्यायार्थम्िति। असति हि वचनग्रहणे क्षिप्रशब्द एवोपपदे लृट् स्यात्, त()स्मस्तु सति यावन्तः क्षिप्रवचनास्तेषु सर्वेषु भवति। अथ लृड्ग्रहणंकिमर्थम्, न क्षिप्रवचन इत्येवोच्येत, भूतवच्चेत्यस्यातिदेशस्य भविष्यत्कालविषयत्वात् तस्मिन् प्रतिषिदोधे "लट् शेषे च"३।३।१३ इत्येनेनैव सिद्धः? इत्याह--"नेति वक्तव्ये"इत्यादि नेति वक्तव्ये यल्लृड्()ग्रहणं क्रियते तस्यैतत् प्रयोजनम्-- लुटोऽपि विषये भविष्यदनद्यतने काले "लृड्? यथा स्यात्, अन्यथा, हि लृडपवादो लुडेव स्यात्
बाल-मनोरमा
क्षिप्रवचने लृट् ६१५, ३।३।१३३

क्षिप्रवचने लृट्। वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते। तदाह-- क्षिप्रपर्याये इति। पूर्वविषये इति। आशंसायामित्यर्थः। "आशंसायां भूतवच्चे"त्यस्यापवादः। ननु "क्षिप्रवचनेने"त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह-- नेति वक्तव्ये इति। "क्षिप्रवचने ने"त्युक्ते "सामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात्। शीघ्रं वप्स्याम इति। अनद्यतनत्वद्योताय ()आश्शब्दः। अत्र न लुडिति भावः।

तत्त्व-बोधिनी
क्षिप्रवचने लृट् ५०६, ३।३।१३३

क्षिप्रवचने। वचनग्रहणं स्वरूपग्रहमनिरासार्थम्। तदाह-- क्षिप्रपर्याय इति। पूर्वविषय इति।आशंसायामित्यर्थः। तेन पूर्वलकारापवादोऽयम्।