पूर्वम्: ३।३।१३३
अनन्तरम्: ३।३।१३५
 
सूत्रम्
आशंसावचने लिङ्॥ ३।३।१३४
काशिका-वृत्तिः
आशंसावचने लिङ् ३।३।१३४

आशंसा येन उच्यते तदाशंसावचनम्। तस्मिन्नुपपदे धातोर् लिङ् प्रत्ययो भवति भूतवच् च इत्यस्य अयम् अपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तो ऽधीयीय। आशंसे अवकल्पये युक्तो ऽधीयीय। आशंसे क्षिप्रम् अधीयीय।
न्यासः
आशंसावचने लिङ्। , ३।३।१३४

"आशंसे युक्तोऽधीयीय" इति।इङः लिङः सीयुट, उत्तमपुरुषैकवचनम्, इट्, "इटोऽत्"३।४।१०६ इत्यद्भावः "सार्वधातुकमपित्"१।२।४ इति ङित्त्वाद्गुणाभावः, "लिङ सलोपोऽनन्तस्य"७।२।७९ इति सकारलोपः, धातोरियङ्, उपसर्गेण सह "अकः सर्वणे दीर्घः" ६।१।९७। "आशंसे क्षिप्रमधीयीय"इति। अत्र यद्यपि क्षिप्रवचनमुपपदमाशंसावचनमपि, तथापि परत्वाल्लिङेव भवति, न लृट। तस्य तु यत्राशंसावचनमुपपदं नास्ति सोऽवकाशः-- "क्षिप्रमध्येषामहे"इति॥
बाल-मनोरमा
आशंसावने लिङ् ६१६, ३।३।१३४

#आशंसावचने लिङ्। आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह-- भविष्यतीति। "आशंसायां भूतवच्चे"त्यस्यापवादः। तदाह-- नतु भूतवदिति। गुरुश्चेदिति। गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः। क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः।

तत्त्व-बोधिनी
आशंसावचने लिङ् ५०७, ३।३।१३४

आशंसावचने। भूतवद्वर्तमानवत्प्रत्ययोरपवादः। न भूतवदिति। न वर्तमानवदित्यपि बोध्यम्। आशंसेऽधीयीयेति। एवं प्रार्थये अधीयीय,इच्छामो वयवमधीयीमहीत्यादि ज्ञेयम्। क्षिप्रमिति। क्षिप्रयोगेऽपि परत्वाल्लिङिति भावः।