पूर्वम्: ३।३।१३४
अनन्तरम्: ३।३।१३६
 
सूत्रम्
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः॥ ३।३।१३५
काशिका-वृत्तिः
न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ३।३।१३५

भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः। अनद्यतनवत् प्रत्ययविधिर् न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने। क्रियाणां प्रबन्धः सातत्येनानुष्ठानम्। कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम्। यावज्जीवं भृशमन्नमदात्। भृशमन्नं दास्यति। यावज्जीवं पुत्रानध्यापिपत्। यावज्जीवमध्यापयिष्यति। सामीप्ये खल्वपि येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायो ऽग्नीनाधित, सोमेनायष्ट, गामदित। येयममावास्या आगामिनी, एतस्यामुपाध्यायो ऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्य अभ्यनुज्ञापनाय।
न्यासः
नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः। , ३।३।१३५

"कालानां सामीप्यम्ित्येनन कालसम्ब्धि सामीप्यमिहाश्रीयत इति दर्शयति। कुतः पुनः सामान्योक्तेन कालसम्बन्धिन एव सामीप्यस्य ग्रहणं लभ्यते? वत्र्तमानसामीप्य इत्यत आरभ्य प्रायिकत्वादस्य प्रकरणस्य। एतदपि कुतः? वत्र्तमानादिशब्दानां कालशब्दत्वात्। अपि च लङलुटोः प्रतिषेधः, तौ च कालविहितौ। अतो यत्र हि तौ, तत्र तत्सम्बन्धेनैव कालसामीप्यमिहाश्रीयत इति विज्ञायते। तत्पुनः कीदृशमित्याह-- "तुल्यजातीयेन"इत्यादि। तुल्यजातीयग्रहणं भिन्नजातीयनिवृत्त्यर्थम्। कालमात्रेण व्यवधानेन गृह्रमाणे येयं पौर्णमास्यतिक्रान्ता तस्यामुपाध्यायोऽग्नीनाधितेत्येवमादावुदाहरणे सामीप्यं न स्यात्; अमावास्यया अन्याभिश्च तिथिभ्यव्र्यवधानात्। तस्मात् समानजातीयेनाव्यवधानमश्रीयते। "अदात्" इति। "गातिस्था"२।४।७७ इत्यादिना सिचो लुक्। "अध्यापिपत्" इति। "हेतुमति च"३।१।२६ इति णिच्। "क्रीङजीनां णौ" ६।१।४७ इत्यात्त्वम्, "अर्त्तिह्यी"७।३।३६ इत्यादिना पुक्, लुङ, च्लेः "णि श्री"३।१।४८ इत्यादिना चङ, "अजादेर्द्वितीयस्य" ६।१।२ इति पीत्येतस्य द्विर्वचनम्, "आडजादीनाम्" ६।४।७२ इत्याट्, "आटश्च" ६।१।८७ इति वृद्धिः, णिचो लोपः। "येयं पौर्णमास्यतिक्रान्ता" इति। पौर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी, तामधिकृत्येदमाह। सा हि यद्यप्यमावास्यया अन्याभिश्च तिथिभिव्र्यवहिता, तथापि तुल्यजातीयेन पौर्णमास्याख्येन कालेनाव्यवहितत्वात् सामीप्यं नातिवत्र्तते। "अग्नीनाधित" इति। दधातेराङपूर्वस्य "स्थाघ्वोरिच्च"१।२।१७इतीत्त्वम्, सिचश्च कित्वम्, "ह्यस्वादङ्गात्" ८।२।२७ इति सिचो लोपः। "अदित"इति। ददाते रूपम्। पूर्ववत्। "यक्ष्यते"इति।यजेर्ललृट्(), स्यः, तस्मिन् परस्तथा षष्वे कृते "षढोः कः सि"८।२।४१ इति कत्वम्। "आधित" इत्यादौ सर्वत्र "स्वरितञितः"१।३।७२ इत्यादिनाऽ‌ऽत्मनेपदम्। किमर्थं प्रतिषेधद्व्यमुच्यते, "नाद्यतनवत् क्रियाप्रबन्धसामीप्ययोः"इत्येवोच्येत? क्रियाप्रबन्धसामीप्ययोह्र्रद्यतनप्रत्ययौ लुङलृटाविष्येते, नानद्यतनप्रत्ययौ लङलृटौ। तौ च लङलुटावेवमुच्यमाने सिध्यत एवेत्यत आह-- "द्वौ प्रतिषेधौ" इत्यादि। एवं मन्यते-- यदि "नाद्यनवत् क्रियाप्रबन्धसामीप्ययोः"इत्येवोच्येत तदैतदेवं सूत्रं विधायकं स्यात्, ततश्च सङ्करः प्रसज्येत-- लुङोऽपि विषये लृट्, लृटश्च विषये लुङ। न ह्रत्रायं विशेष उपादीयते। भूते लुङ भविष्यति लृडिति प्रतिषेधविषय उच्यमाने नायं दोषः, ततो नानेन किञ्चिद्विधीयते, केवलमनद्यतनप्रत्ययानां प्रतिषेधः क्रियते, तेषु प्रतिषिद्धेषु स्वैरेव वाक्यैर्विधायकैर्लुङादय उत्सर्गाः स्वे स्वेकालेऽपवादविनिर्मुक्ते भवन्ति। अतो यथाप्राप्ताभ्यनुज्ञापनाय प्रतिषेधद्वयमुच्यते॥
बाल-मनोरमा
नाऽनद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ६१७, ३।३।१३५

नाऽनद्यतनवत्। क्रियायाः प्रबन्धः = सातत्यम्। तदाह-- क्रियायाः सातत्ये इति। अनद्यतनबदित्यनेन अनद्यने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ। तदाह-- लङ्लुटौ नेति। अनद्यतने भूते लङ् न भवति, भविष्यत्यनद्यतने तु लुग्नेत्यर्थ-। क्रियासातत्ये लङ्निषेधमुदाहरति-- यावज्जीवमन्नमदादिति। लुङि "गातिस्थे" ति सिचो लुक्। सामीप्ये उदाहरिष्यन्नाह-- सामीप्यमिति। येयमिति। पोर्णमास्या उपरि कृष्णपक्षे कतपयाहोरात्रे व्यवधानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाऽभावात्। आधितेति। धाधातोर्लुङि "स्थाध्वोरिच्चे"ति धाधातोरित्त्वं, सिचः कित्त्वं च "ह्यस्वादङ्गा"दिति सिचो लोपः। सोमेनायष्टेति। "येयं पौर्णमास्यतिक्रान्ता तस्या"मित्यनुषज्यते। अथ क्रियासातत्ये लुटो निषेधमुदाहरति-- येयममावास्येति। सोमेन यक्ष्यते इति। "येयममावास्या आगामिनी तस्या"मित्यनुषज्यते।

बाल-मनोरमा
भविष्यति मर्यादावचनेऽवरस्मिन् ६१८, ३।३।१३५

भविष्यति मर्यादा। "अवरस्मि"न्निति च्छेदः। अनद्यतनवन्नेति। लुण्नेत्यर्थः। "अक्रियाप्रबन्धार्थ"मिति भाष्यम्। "असामीप्यार्थं चे"ति कैयटः। योऽयमिति। क()स्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् ()आः प्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते। "अवर"मित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः। कालविभागे। पूर्वसूत्रमिति। "भविष्यति मर्यादावचनेऽवरस्मि"न्निति सूत्रमित्यर्थः। ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह-- अहोरात्रेति। तथा च आहोरात्रसंबन्धिनि प्रविभागे "भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः। ननु "भविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह-- योगविभाग उत्तरार्थ इति। इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर आगामीति। कालतो मर्यादायामुदाहरणम्। आग्रहायण्या इति। मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति। नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति। अत्र न लुट्, किंतु लृडेवेति भावः। पञ्चदशरात्रयुक्ता इति। पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः। "अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः। यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। "अहःसर्वैकदेशे"त्यच्समासान्तः। "सङ्ख्यापूर्वंरात्रं क्लीब"मिति तु "लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये"ति वचनान्न भवति।

तत्त्व-बोधिनी
नाऽनद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ५०८, ३।३।१३५

नानद्यतन। भूतानद्यतने लङ्विहितो, भविष्यत्यनद्यतने तु लुट्, तौ चानयोरर्थयोर्निषिध्येते। तदाह--लङ्लुटौ नेति। एवं च भूते लुङ्, भविष्यति तु लृडित्याशयेनोदाहरति-- अन्नमदात्, दास्यतीत्यादि। अग्नीनिति। आहवनीयादीन्।