पूर्वम्: ३।३।१३५
अनन्तरम्: ३।३।१३७
 
सूत्रम्
भविष्यति मर्यादावचनेऽवरस्मिन्॥ ३।३।१३६
काशिका-वृत्तिः
भविष्यति मर्यादावचने ऽवरस्मिन् ३।३।१३६

नानद्यतनवतिति वर्तते। अक्रियप्रबन्धार्थम्, असामीप्यार्थं च वचनम्। भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागे ऽनद्यतनवत् प्रत्ययविधिर् न भवति। यो ऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः। भविष्यति इति किम्? यो ऽयमध्वा गतः आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनम् अभुञ्ज्महि, तत्र सक्तूनपिबाम। मर्यादावचने इति किम्? यो ऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पाता स्मः। अवरस्मिनिति किम्? यो ऽयमध्वा गन्तव्यः आपाटलिपुत्रात्, तस्य यत्परम् कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः। इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता। तत्र च विशेषं वक्ष्यति।
न्यासः
भविष्यति मर्यादावचनेऽवरस्मिन्। , ३।३।१३६

"मर्यादावचने सति" इति। वचनग्रहणमभिविधावपि यथा स्यात्। मर्यादाविशेष एवाभिविधिश्च। सैव मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदाऽभिविधिरित्युच्यते, यदा तु न सम्बद्ध्यते तदा मर्यादेति। तत्रेह वचनग्रहणाद्विशेषो नाश्रीयते, तेन मर्यादाया उक्तिमात्रे भवति। विनापि वचनग्रहणेनाभिविधौ प्रतिषेधो न भवेत्; यस्माद्यत्राभिविधौ कार्यमिच्छति तत्राभिविधिग्रहणं वा करोति, यथा-- "आङ् मर्यादाभिविध्योः" २।१।१२ इति#इ; वचनग्रहणं वा, यथा-- "आङ् मर्यादावचने" १।४।८८ इति। तदभिविधावपि यथा स्यादित्येवमर्थं वचनग्रहणं क्रियते। "अवरस्मिन्" इति। अर्वागित्यर्थः। "गन्तव्यः"इति। भविष्यत्कातामध्वनो दर्शयति। "तस्य यदवरम्" इति। अनेनाध्वनो विभागं "द्विः" इति। एतेनापि क्रियाप्रतिबन्धाभावम्। "भोक्ष्यमहे" इति। "भुजोऽनवने" १।३।६६ इत्यात्मनेपदम्, "चोः कुः" ८।२।३० इति गकारः, "खरि च" ८।४।५४ इति गकारस्य ककारः। "अध्यैमहि" इति। महिङ, "आडजादीनाम्" ६।४।७२ इत्याट्, "आटश्च" ६।१।८७ इति वृद्धिः, उपसर्गस्य ६।१।७४ यणादेशः। "अपिबाम" इति। पाघ्रादिसूत्रेण ७।३।७८ पिबादेशः, "नित्यं ङितः" ३।४।९९ इति सकारलोपः। "भोक्तास्महे" इति। लुट्। "तत्रच विशेषं वक्ष्यति" इति। अनहोरात्राणामित्यनेन ३।३।१३७
तत्त्व-बोधिनी
भविष्यति मर्यादावचनेऽवरस्मिन् ५०९, ३।३।१३६

भविष्यति मर्यादा। अक्रियाप्रबन्धार्थमसामीप्यार्थं चेदं वचनम्। "नाऽनद्यतनव"दित्यनुवर्तते इत्याह--- अनद्यतनवन्नेति। लुडत्र नेत्यर्थः। इह सूत्रे देशकृत मर्यादा, उत्तरत्र कालकृता। तत्र विशेषं वक्ष्यति-- तस्य यदवरमिति। पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्ब्याः सकाशादित्यर्थः। कौशाम्ब्याः पूर्वमिति यावत्। भविष्यति किम्?। योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम। मर्यादावचने इति किम?। योऽध्वा गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः। अवरस्मिन्निति किम्?। योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशाम्ब्यास्तत्र सक्तून्पाता स्मः।