पूर्वम्: ३।३।१३८
अनन्तरम्: ३।३।१४०
 
सूत्रम्
लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ॥ ३।३।१३९
काशिका-वृत्तिः
लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ ३।३।१३९

भविष्यति इत्यनुवर्तते। हेतुहेतुमतोर् लिङ् ३।३।१५६ इत्येवम् आदिकं लिङो निमित्तम्। तत्र लिङ्निमित्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः। दक्षिणेन चेदायास्यन् न शकटं पर्यभविस्यत्। यदि कमलकमाह्वास्यन् न शकटं पर्याभविष्यत्। अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्। भविष्यत् कालविषयम् एतद् वचनम्। भविस्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानम्। लिङ्गिलिङ्गे बुद्धवा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते, यदि कमलकमाह्वास्यन्न शक्टं पर्याभविष्यतिति। हेतुहेतुमतोराह्वानापर्याभवनयोः भविष्यत् कालविषययोः अतिपत्तिः इतो वाक्यादवगम्यते।
लघु-सिद्धान्त-कौमुदी
लिङ्निमित्ते ऌङ् क्रियातिपत्तौ ४४४, ३।३।१३९

हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥ अत सातत्यगमने॥ २॥ अतति॥
न्यासः
लिङनिमित्ते लृङ् क्रियातिपत्तौ। , ३।३।१३९

"इत्येवमादिकम्" इति। आदिशब्देन "कथमि लिङ च" ३।३।१४३ इत्येवमादयो गृह्रन्ते। "कुतश्चिद्वैगूण्यात्" इति। विधुरप्रत्ययोपनिपातात्, कारणान्तरवैकल्याद्वा। "आयास्यत्" इति। "स्यतासी लृलुटोः" ३।१।३३ इति स्यप्रत्ययः। "इतश्च" ३।४।१०० इतीकारलोपः। "आह्वास्यत्" इति। "ह्वेञ् {स्पर्धायां शब्दे च--धा।पा।} स्पर्धायाम्" (धा।पा।१००८)। "{वास्तीदमुदाहरणं काशिकायाम्} पर्यासिष्यत" इति। "आस उपवेशने" (धा।पा।१०२१), अनुदात्तेत्। {तत्र हेतुभूतम्-- काशिका} तद्धेतुभूतम्" इति। शकटपर्याभवनस्य हेतुभूतम्। एतेन लिङनिमित्तं हेतुहेतुमद्भावं दर्शयति। "लिङ्गिलिङ्गेबुध्वा" इति। असकृत् प्राक् कमलकाह्वाने सति शकटस्यापर्याभवनं दृष्ट्वा भाविनोऽपि कमलह्वानस्य शकटस्यापर्यायभवनस्य हेतुभूतत्वं हेतुभूतत्वं लिङ्गेन बुध्वा। लिङ्गं पुनः कमलकाह्वानसामान्यं धर्मम्। "तदतिपर्तिं()त च" इति। कमलकाह्वानस्य शकटपर्याभवनस्य चातिपत्तिम्। तत्र कमलकाह्वानस्य चातिपतिं()त कमलकस्य देशान्तरगमनादिना लिङ्गेनावगम्यते, शकटपर्याभवनस्यातिपत्तिमत्र शकटस्य गुरुभारारोपणादिना। "इतो वाक्यात्" इति। यदि कमलकमाह्वास्यदित्यादेवर्वाक्यात्। अथ किमर्थं क्रियाग्रहणम्, न त्वेतद्वक्तव्यम्-- लिङ्()निमित्ते लृङतिपत्ताविति, धात्वधिकाराद्विनापि क्रियाग्रहणेन धात्वर्थस्यातिपत्ताविति विशेषोऽर्थो लभ्यते, ततोऽनर्थकं क्रियाग्रहणमिति मन्यते;नैतत्; लिङनिमित्त इति श्रूयते, प्रकृतस्य सम्बन्धाच्छरुक्तस्य सम्बन्धो बलवानिति लिङनिमित्तस्यैवातिपत्तिर्विज्ञायते। ततश्च "उताप्योः समर्थयोः" ३।३।१५२ इति सामथ्र्यातिपत्तावुताप्योश्चातिपत्तौ लिङ प्रसज्येत। तस्मात् क्रियाग्रहणं कत्र्तव्यम्॥
बाल-मनोरमा
लिङ्निमित्ते लृङ् क्रियातिपत्तौ ७६, ३।३।१३९

लिङ्निमित्ते। हेतुहेतुमद्भावादीति। हेतुहेतुमतोर्लिङ्" , "इच्छार्थेषु लिङ्लोटा"वित्यादि लिङ्निमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति। भविष्यत्यर्थ इति। "भविष्यति मर्यादावचने" इत्यतस्तदनुवृत्तेरिति" भावः। क्रियातिपत्तिपदं व्याचष्टे---क्रियाया अनिष्पत्ताविति। "सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य"दित्युदाहरणं बोध्यम्। अभविष्यदिति। लृङ्। तिप्। इतश्चेतीकारललोपः। "स्यतासी लृलुटो"रिति शबपवादः स्यप्रत्ययः। अट्। वलादिलक्षम इट्। गुणावादैशौ। षत्वम्। अभविष्यन्निति। झिः। स्यः। अट्। इट्। गुणावादेशौ। "झोऽन्त इति झेरन्तादेशः। इतश्चेतीकारलोपः। षत्वम्। रुत्वविसर्गौ। अभविष्यतमिति। थसस्तमादेशः। स्यः अट्। इट्। गुणः। अवादेशः। इतश्चेतीकारलोपः। षत्वम्। रुत्वविसर्गौ। अभविष्यमिति। मिपोऽम्। स्यः। अट्। इट्। गुणावौ। पूर्वरूपम्। षत्वम्। अभविष्यावेति। वस्। स्यः। अट्। इट्। नित्यं ङित इति सकारलोपः। अतो दीर्घः। षत्वम्। एवं मसि अभविष्यामेति रूपम्। इति लृङ्प्रक्रिया। अथ प्रसङ्गादाह--

तत्त्व-बोधिनी
लिङ्?निमित्ते लृङ् क्रियातिपत्तौ ५८, ३।३।१३९

हेतुहेतुद्भावादीति। अत्र केचित्-- "आदिशब्देनाशंसावचनं गृह्रत" इति व्याख्याय आशंसावचने लिङो यन्निमित्तं तत्रापि क्रियातिपत्तौ भविष्यति लृङ्, गुरुश्चेदायास्यत्, आशंसे,- अहमध्येष्ये" इत्याद्युदाहरन्ति। अन्ये तु "भविष्यति मर्यादे"त्यादिना भविष्यतीत्युपक्रम्य यो यो लिङ्ग विहितस्तन्निमित्त एव क्रियातिपत्तौ लृह् भवति, नान्यत्रेत्याहुः॥ लिङ्()निमित्तमिति। "हेतुहेतुमतोर्लिङ्" , "इच्छार्थेष #उ लिङ्लोटौ" इत्यादिलकारार्थप्रक्रियायां स्फुटीभविष्यति। अनिष्पत्ताविति। "सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य"दिति तत्रैवोदाहरिष्यति।