पूर्वम्: ३।३।१४२
अनन्तरम्: ३।३।१४४
 
सूत्रम्
विभाषा कथमि लिङ् च॥ ३।३।१४३
काशिका-वृत्तिः
विभाष कथमि लिङ् च ३।३।१४३

गर्हायाम् इति वर्तते। कथमि उपपदे गर्हायां गम्यमानायं धातोः लिङ् प्रत्ययो भवति, चकाराल् लट् च। विभाषाग्रहणं यथास्वं कालविषये विहितानाम् अबाधनार्थम्। कथं नाम तत्रभवान् वृषलं याजयेत्, कथं नाम तत्रभवान् वृषलं याजयति। कथं नाम तत्रभवान् वृषलं याजयिष्यति। कथं नाम तत्रभवान् वृषलं याजयिता। कथं नाम तत्रभवान् वृषलं याजयेत्। कथं नाम तत्रभवान् वृषलम् अयाजयत्। कथं नाम तत्रभवान् वृषलं यायजां चकार। अत्र लिङ्निमित्तम् अस्ति इति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्। भविष्यद् विवक्षायां सर्वत्र नित्येन एव लृङा भवितव्यम्।
न्यासः
विभाषा कथमि लिङ् च। , ३।३।१४३

"विभाषाग्रहणम्()" इत्यादि। यस्मिन् काले लृङादयो विहितास्तेषां बाधनं मा भूदित्येवमर्थं विभाषाग्रहणम्। यद्येवम्, अनर्थकश्चकारः, विभाषाग्रहणादेव हि लटोऽप्यबाधित्वात् सिध्यत्येव? सत्यं सिध्यति वत्र्तमाने, कालान्तरे तु न सिध्यति। न हि तत्र कथमित्युपपदे लटः प्राप्तिरिति तत् कथं विभाषाग्रहणेन सिध्यति ! तस्माल्लडर्थश्चकारः कत्र्तव्यः।"याजयेत्" इति। लिङ। "याजयिष्यति" इति। लृट्। "अयीयजत्" इति। लुङ, च्लेश्चङ, णौ चङि ह्यस्वः, णिलोपः, "चङि" ६।१।११ इति द्विर्वचनम्, "सन्यतः"७।४।७९ इतीत्त्वम्। "अयाजयत्" इति। याजयाञ्चकार" इति। लिट्। "कास्प्रत्ययात्" ३।१।३५ इत्याम्, "आमः" २।४।८१ इति लेर्लुक्, तस्याव्ययत्वात् सुबलुक्, "कृञ्च" ३।१।४० इत्यादिना लिट आम्परस्य कृञोऽनुप्रयोगःष णल्, द्विर्वचनम्, अभ्यासकार्यम्, "अयामन्त" ६।४।५५ इत्यादिनायादेशः। अत्र लिङ्()निमित्तमस्तीति कथमित्येतत् गर्हा च? तदेतद्गर्हायां लिङो विधानाद्भूतविवक्षायां क्रियातिपत्तौ लृङिति भूते चेति वत्र्तमाने "वोताप्योः" ३।३।१४१ इति वचनाद्भविष्यद्विवक्षायां सर्वत्र नित्यनैव लृङा भवितव्यमिति; भवितव्यमिति; भविष्यतीति वत्र्तमाने "लिङ्()निमित्ते लृङ् क्रियातिपत्तौ ३।३।१३९ इति वचनात्॥
बाल-मनोरमा
विभाषा कथमि लिङ् च ६२३, ३।३।१४३

विभषा कथमि। गर्हायामित्येवेति। अनुवर्तत एवेत्यर्थः। "कालत्रये लि"ङिति शेषपूरणम्। भविष्यतीति निवृत्तमिति। भावः चाल्लडिति। "समुच्चीयते" इति शेषः। तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम्। कथं धर्मं त्यजेरिति। त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः। "गर्हितमेतदिति कथंशब्दाद्गम्यते। लटि उदाहरति-- त्यजसि वेति। उक्तोऽर्थः। पक्षे इति। विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्()लङ्()लुङ्()लट्()लुट्()लृट इत्यर्थः। अत्रेति। अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानां "लिङ्()निमित्ते लृङ् क्रियातिपत्तौ" इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्()निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः। भूते वेति। "वोताप्यो"रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः। भविष्यि नित्यं लृडित्यत्रोदाहरति-- कथं नामेति। "तत्र भवा"निति समुदायः पूज्यवाची। वेदप्रामाण्याभ्युपगन्तेति यावत्। एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः।