पूर्वम्: ३।३।१४४
अनन्तरम्: ३।३।१४६
 
सूत्रम्
अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि॥ ३।३।१४५
काशिका-वृत्तिः
अनवक्लृप्त्यमर्षयोरकिंवृत्ते ऽपि ३।३।१४५

गर्हायाम् इति निवृत्तम्। अनवक्लृप्तिः असम्भावना। अमर्षः अक्षमा। किंवृत्ते ऽकिंवृत्ते च उपपदे अनवक्लृप्त्यमर्षयोः धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासङ्ख्यं न भवति। अनवक्लृप्तौ तावत् न अवकल्पयामि, न सम्भावयामि, न श्रद्दधे तत्रभवान् नाम वृषलं याजयेत्, तत्रभवान् नाम वृषलं याजयिष्यति। को नाम वृषलो यं तत्रभवान् वृषलं याजयेत्, को नाम तत्रभवान् वृषलं याजयिष्यति। अमर्षे न मर्षयामि तत्रभवान् वृषलं याजयेत्, याजयिष्यति। को नाम वृषलो यं तत्रभवान् याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति। भविष्यति नित्यम्। न अवकल्पयामि तत्रभवान् नाम वृषलम् अयाजयिष्यत्।
न्यासः
अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि। , ३।३।१४५

अत्र द्वावर्थौ, प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्()भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- "बह्वचः"इत्यादि। अमर्षशब्दो ह्रनवक्लप्तिशब्दापेक्षयाल्पाच्तरः, तत्र "अल्पाच्तरम्" २।२।३४ इति तस्य पूर्वनिपाते कत्र्तव्ये योऽयमिह वह्वचोऽनवुक्लृप्तिशब्दस्य पूर्वनिपातः कृतः स लक्षणव्यभिचारार्थतां दर्शयति। यथेह पूर्वनिपातलक्षणं व्यभिचारात् स्वविषये न प्रवत्र्तते, तथा यथासंख्यलक्षममपीति, तेन यथासंख्यं न भवति। अपिग्रहणं किंवृत्तेऽपि यथा स्यात्न्यथा ह्रकिंवृत्तग्रहणे किंवृत्ते न स्यात्। यदि यथा "उपकादिभ्योऽन्यतरस्याम्" २।४।६९ इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्, तथेहाप्यकिंवृत्तग्रहणं किंवृत्ताधिकारनिवृत्त्यर्थं स्यात्, तस्मिन्निवृत्ते किंवृत्तेऽकिंवृत्ते प्रत्ययद्वयं भविष्यतीति व्याख्यायते, तदा शक्यतेऽपिग्रहणमकर्तुम्। तर्हि तत् क्रियते विस्पष्टार्थम्॥
बाल-मनोरमा
अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ६२५, ३।३।१४५

अनवक्लृप्यमर्ष। निवृत्तमिति। व्याख्यानादिति भावः। अनवक्लृप्त्यमर्षयोर्लिङ्()लृटोश्च यथासङ्ख्यं नेष्यते, अल्पाच्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः। न सम्भावयामीति। अकिंवृत्ते उदाहरणम्। भवान् हिरं निन्देदिति यत्तन्न संभवायामि, न मर्षये वेत्यन्वयः। किंवृत्ते उदाहरति--कः कतर इति। लृङ्()प्राग्वदिति। भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः।

तत्त्व-बोधिनी
अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ५१६, ३।३।१४५

अनवक्लृप्त्यमर्षयोः। लिङ्लृटावनुवर्तेते, तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादौ। किंवृत्तस्यानधिकारादेवाऽविशेषादुभयोर्भविष्यतीत्यकिंवृत्तेऽपीति न कर्तव्यम्। पूर्वनिपाताऽर्हस्याऽल्पाऽचः परनिपातो यथासङ्ख्यनिवृत्त्यर्थः। लृङ् प्राग्वदिति। भूते वा, भविष्यति नित्यमित्यर्थः। नाऽहं भावयामि चैत्रो हरिम निन्दिष्यदित्याद्युदाहर्तव्यम्।