पूर्वम्: ३।३।१५०
अनन्तरम्: ३।३।१५२
 
सूत्रम्
शेषे लृडयदौ॥ ३।३।१५१
काशिका-वृत्तिः
शेषे लृडयदौ ३।३।१५१

यच्चयत्राभ्याम् अन्यत्र चित्रीकरणं शेषः। शेषे उअपपदे चित्रीकरणे गम्यमाने धातोः लृट् प्रत्ययो भवति, यदिशब्दश्चेन् न प्रयुज्यते। सर्वलकाराणाम् अपवादः। आश्चर्यम्, चित्रम् अद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरनमध्येष्यते। अयदौ इति किम्? आश्चर्यं यदि स भुञ्जीत, यदि सो ऽधीयीत। लिङ् निमिताभावातिह लृङ् न भवति।
न्यासः
शेषे लृड�दौ। , ३।३।१५१

"यच्चयत्राभ्याम्" इत्यादिना यच्चयत्रापेक्षं शेषं दर्शयति। चित्रीकरणापेक्षया शेषो न शक्यते विज्ञातुम्; चित्रीकरणस्येह स्वर्यमाणत्वात्। "आरोक्ष्यति" इति। "रुह बीजजन्मनि प्रादुर्भावे च" (धा।पा।८५९)। "हो ढः" ८।२।३१, "षढोः कः सि" ८।२।४१। "आश्चर्य यदि भुंजीत" इति। अनवक्लृप्रेरत्राश्चर्य गम्यते। तत्राश्चर्यनिमित्ते लृटि प्रतिषिद्धे "जातुयदोर्लिङविधाने यदायद्योरूपसंख्यानम्" (वा।३३१) इत्यनवक्लृप्तौ लिङ॥
बाल-मनोरमा
शेषे लृडयदौ ६३१, ३।३।१५१

शेषे लृडयदौ।यच्चयत्राभ्यामन्यः शेषः। तदाह-- यच्चयत्राभ्यामन्यस्मिन्निति। "यदिभिन्ने" इति शेषः। लृट्()स्यादिति। नतु लकारान्तरमित्यर्थः। आश्चर्यमिति। अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः। नामेत्यव्ययमाश्चर्यद्योतकम्। मूक् इति। मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः। यदीत्याश्चर्यद्योतकम्।

तत्त्व-बोधिनी
शेषे लृडयदौ ५२२, ३।३।१५१

शेषे। सर्वलकारापवादः। सोऽधीयीतेति। यदायद्योरुपसङ्ख्यानात् "जातुयदो"रिति लिङ्। लिङ्निमित्ताऽभावादिह लृङ् न।