पूर्वम्: ३।३।१५१
अनन्तरम्: ३।३।१५३
 
सूत्रम्
उताप्योः समर्थयोर्लिङ्॥ ३।३।१५२
काशिका-वृत्तिः
उताप्योः समर्थयोर् लिङ् ३।३।१५२

उत अपि इत्येतयोः समर्थयोः धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। बाढम् इत्यस्मिन्नर्थे समानार्थत्वम् अनयोः। उत कुर्यात्। अपि कुर्यात्। उताधीयीत। अप्यधीयीत। बाढमध्येष्यते इत्यर्थः। समर्थयोः इति किम्? उत दण्डः पतिष्यति? अपि द्वारं धास्यति। प्रश्नः प्रच्छादनं च गम्यते। वाऽऔताप्योः ३।३।१४१ इति विकल्पो निवृत्तः। इतः प्रभृटि भूते ऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्। भविष्यति तु सर्वत्र एव नित्यः।
न्यासः
उताप्योः समर्थयोर्लिङ्। , ३।३।१५२

"समर्थयोः" इति। धातुना सामथ्र्यमिह नाश्रीयते। तयोरुपपदत्वेनैव तस्य लब्धत्वात्। तस्मात् परस्परसामथ्र्य समर्थशाब्दादिह गृह्रते। तदपि व्यपेक्षालक्षणमेकार्थीभावलक्षणमुभयमुताप्योर्न सम्भवति; पर्यायेण तयोरुपपदत्वात्, तस्मात् समानार्थलक्षणमिह सामथ्र्य समर्थशब्देन प्रतिपाद्यत इत्यत आह-- "समानार्थत्वमनयोः"इति। "कुर्यात्" एइति। उप्रत्यये कृते गुणो रपरत्वञ्च, "अत उत् सार्वधातुके" ६।४।११० इत्युत्त्वम्, "ये च" ६।४।१०९ इत्युकारलोपः॥
बाल-मनोरमा
उताप्योः समर्थयोर्लिङ् ६३२, ३।३।१५२

उताप्योः। समौ अर्थौ ययोरिति विग्रहः। शकन्ध्वादित्वात्पररूपम्। एकार्थयोरित्यर्थः। कमर्तमादायानयोरेकार्थकत्वमित्यत आह-- बाढमिति। तथा च बाढार्थकयोः उत अपि इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः। उत अपि वेति। उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः। "उताऽपी"बाढमितयर्थकौ। गम्यते इति। "उत दण्ड पतिष्यती"त्यत्र उतशब्देन प्रश्नो गम्यते। "अपिधास्यति द्वार"मित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वं गम्यत इत्यर्थः। इतः प्रभृतीति। "वोताप्यो"रिति मर्यादायामाङ्। "उताप्यो"रत्यतः प्राग्भूते लिङ्()निमित्ते लृङ् वेत्यधिक्रियते। "उताप्यो"रित्यादिसूत्रेषु भूते "लिङ्()निमित्ते लृङ् क्रियातिपत्तौ" इत्येवाधिक्रियते इत्युक्तम्। एवं च "उताप्यो"रिति सूत्रप्रभृति लिङ्()निमित्तेक्रियापत्तौ भूते लृङित्येवाधिक्रियते, नतु वाग्रहणम्। अतो नित्यमेवाऽत्र विषये क्रियातिपत्तौ भूते भविष्यति च लृङित्यर्थः।

तत्त्व-बोधिनी
उताप्योः समर्थयोर्लिङ् ५२३, ३।३।१५२

उताप्योः। धातोर्लिङ् स्यात्कालत्रये। भूतेऽपि नित्य इति। वाग्रहमस्य निवृत्तत्वाद्भविष्यतीव भूतेऽपि नित्यं लृङ्। उताऽहनिष्यद्दस्युं राजा। नाऽहन्, न हनिष्यतीति गम्यते।