पूर्वम्: ३।३।१५२
अनन्तरम्: ३।३।१५४
 
सूत्रम्
कामप्रवेदनेऽकच्चिति॥ ३।३।१५३
काशिका-वृत्तिः
कामप्रवेदने ऽकच्चिति ३।३।१५३

स्वाभिप्रायाविष्करणम् कामप्रवेदनम्। कामः, इच्छा, अभिलाषः इत्यनर्थान्तरम्। तस्य प्रवेदनम् प्रकाशनम्। तस्मिन् गम्यमाने अकच्चिति उपपदे धातोर् लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। कामो मे भुञ्जीत भवान्। अभिलाषो मे भुञ्जीत भवान्। अकच्चिति इति किम्? कच्चिज् जीवति ते माता कच्चिज् जीवति ते पिता। माराविद त्वां पृच्छामि कच्चिज् जीवति पार्वती।
न्यासः
कामप्रवेदनेऽकच्चिति। , ३।३।१५३

"कामो मे भुञ्जीत भवान्" इति। स्वाभिप्रायं परस्यानेनाविष्कारोति॥
बाल-मनोरमा
कामप्रवेदनेऽकच्चिति ६३३, ३।३।१५३

कामप्रवेदनेऽकच्चिति। "अकच्चिती"ति च्चेदः। तदाह-- नतु कच्चितीति। सर्वलकारापवादः। अभिप्रायः = इच्छा। काम इति। भवान् भुञ्जीतेति मे कामः। इच्छेत्यर्थः। अत्र लिङ्()निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लिङ्। प्रश्न एवायं कामप्रवेदनद्योतक इति प्राप्तिः। अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाऽभावादिच्छार्थेष्विति वक्ष्यमाणं नाऽत्र प्रवर्तते।

तत्त्व-बोधिनी
कामप्रवेदनेऽकच्चिति ५२५, ३।३।१५३

कामप्रवेदने। लिङ् स्यादिति। कालत्रये।सर्वलकारापवादः। कच्चिज्जीवतीति। "कामो मे" इत्यनुषञ्जनीयम्। "वर्तमानसामीप्ये" इति लट्।