पूर्वम्: ३।३।१५४
अनन्तरम्: ३।३।१५६
 
सूत्रम्
विभाषा धातौ सम्भावनवचनेऽयदि॥ ३।३।१५५
काशिका-वृत्तिः
विभाषा धातौ सम्भावनवचने ऽयदि ३।३।१५५

सम्भावने ऽलम् इति चेत् सिद्धाप्रयोगे इति सर्वम् अनुवर्तते। अम्भावनम् उच्यते येन स सम्भावनवचनः। सम्भावनवचने धातावुपपदे यच् छब्दवर्जिते धातोर् विभाषा लिङ् भवति। पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनं। सम्भावयामि भुञ्जीत भवान्, सम्भावयामि भोक्ष्यते भवान्। अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान्। श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान्। अयदि इति किम्? सम्भावयामि यद् भुञ्जीत भवान्।
न्यासः
विभाषा धातौ सम्भावनवचनेऽयदि। , ३।३।१५५

"{भविष्यति च काले-- काशिका"} भविष्यति काले" इति। इष्यत इत्यपेक्षते। कथं पुनर्विभाषा भविष्यत्कालश्च लभ्यते, यावता नेह सूत्रे विभाषाग्रहणं विनापि भविष्यत्कालोऽस्ति? अत आह-- यस्माद्विभाषाग्रहणमनुवत्र्तते" इति। तेन विभाषा लिङप्रत्ययो लभ्यते। यत् "उताप्योः" ३।३।१५२ इत्यादेः सूत्राल्लिङिति वत्र्तमाने पुनर्लिङग्रहणं क्रियतेऽतोभविष्यत्कालो लभ्यते। पुनर्लिङग्रहणस्यैतत् प्रयोजनम्-- कालविशेषे भविष्यति यथा स्यादिति। तेन हन्तीति पलायत इत्येवमादौ वत्र्तमानविवक्षायां लडेव भवति। अत्र हननं हेतुः, पलायनं हेतुमत्। "पलायते" इति। "उपसर्गस्यायतौ" ८।२।१९ इति लत्वम्॥
बाल-मनोरमा
विभाषा धातो सम्भावनवचनेऽयदि ६३५, ३।३।१५५

विभाषा धातौ। "अयदी"ति छेदः। तदाह-- नतु यदिति। लिङभावे लृट्, "शेषे लडयदौ" इत्यतस्तदनुवृत्तेः। संभावयामीति। प्रायेण भोक्तुं समर्थ इत्यर्थः।

तत्त्व-बोधिनी
विभाषा धातौ सम्भावनवचनेऽयदि ५२६, ३।३।१५५

विभाषा धातौ। संभावनमुच्यते येन तत्संभावनवचनं, तस्मिन्धातौ। संभावनार्थकधातावित्यर्थः। भुञ्जीथास्त्वमिति। अत्र पूर्वेण नित्यो लिङ्। धातौ किम्?।संभावनवचने स्वरूपग्रहणं माभूत्। कृते तु संभावनवचने तद्वाचकधातोरप्रयोगादिह विभाषा न भवति। भुञ्जीत भवान्। पूर्वेणाऽत्र नित्यो लिङ्।