पूर्वम्: ३।३।१६
अनन्तरम्: ३।३।१८
 
सूत्रम्
सृ स्थिरे॥ ३।३।१७
काशिका-वृत्तिः
सृ स्थिरे ३।३।१७

सर्तेः धातोः स्थिरे कर्तरि घञ् प्रतयो भवति। स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते। स चिरं तिष्ठन् कालन्तरं सरति इति धात्वर्थस्य कर्ता युज्यते। चन्दनसारः। खदिरसारः। स्थिरे इति किम्? सर्ता। सारकः। व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतीसारो व्याधिः। विसारो मत्स्यः। सारो बलम्।
न्यासः
सृ स्थिरे। , ३।३।१७

"सत्र्तेर्धातोः" इति। "सृ गतौ" (धा।पा।९३५) इत्यस्माद्धातोः। "स्थिरे कत्र्तरि" इति। एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणं न तूपपदमिति दर्शयति।"घञ्प्रत्ययो भवति" इति। तृजाद्यपवादः। कः पुनरयं स्थिरो नामेत्याह-- "स्थिर इति कालान्तरस्थायी" इत्यादि। तत्रैवोपपत्तिमाह-- "स चिरम्" इत्यादि। सत्र्तेर्धातोर्गतिरर्थः। स च कालान्तरस्थायिन एव कर्त्तुः सम्भवति, नात्मलाभसमनन्तरनाशिनः। तस्मात् कालान्तरस्थाय्येव गतेर्धात्वर्थस्य कत्र्ता युज्यत इत्येवेह स्थिरशब्देनोच्यते। यदि कालान्तरस्थायिन एव गतिः सम्भवति स्थिरग्रहणमनर्थकम्, न ह्रस्थिरः सर्त्त्यर्थस् कत्र्तोपपद्यते? नानर्थकम्; प्रकर्षेण यः सरति तत्र कत्र्तरि प्रत्ययो यथा स्यादित्येवमर्थत्वात्। अत एव स चिरं तिष्ठन् कालान्तरं सरतीति वृत्तौ चिरग्रहणं कृतम्। "चन्दसारः" इति। षष्ठीसमासः। "व्याधिमत्स्यबलेष्विति वक्तव्यम्" इति। अस्थिरार्थोऽयमारम्भः। एषु व्याध्यादिषु त्रिष्विपि घञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि चकारानुवृत्तिमाश्रित्य कत्र्तव्यम्। "अतीसारः" इति। "उपसर्गस्य घञ्यमनुष्ये बहुलम्" ६।३।१२१ इति दीर्घत्वम्॥
तत्त्व-बोधिनी
सृ स्थिरे १५१५, ३।३।१७

सृ स्थिरे। सतेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणं, स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदमिति ध्वनयन्नाह-- स्थिरे कर्तरीति। अद्र्धर्चादिषु सारशब्दपाठोऽत्र मानम्। व्याधीत्यादि। अस्थिरार्थमिदं वचनम्। तेन "विसारो मत्स्य" इत्यत्र विविधं सरतीत्यर्थः सङ्गच्छते। अतीसार इति। "उपसर्गस्य घञी"ति दीर्घः। सारो बलमिति। अत्रापि सृधातुरन्तर्भावितण्यर्थः, सारयति चेष्टयतीत्यर्थानुरोधात्। वलवानेव हि चेष्टते। सिद्धावस्थापन्न इति। पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः।