पूर्वम्: ३।३।१६९
अनन्तरम्: ३।३।१७१
 
सूत्रम्
आवश्यकाधमर्ण्ययोर्णिनिः॥ ३।३।१७०
काशिका-वृत्तिः
आवश्यकाऽधमर्ण्ययोर् णिनिः ३।३।१७०

अवश्यं भावः आवश्यकम्। उपाधिरयं, न उपपदम्। अवश्यं भावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोः णिनिः प्रत्ययो भवति। अवश्यंकारी। मयूरव्यंसकादित्वात् समासः। आधमर्ण्ये खल्वपि शतम् दायी सहस्रं दायी। निष्कं दायी।
न्यासः
आवश्यकाधमण्र्ययोर्णिनिः। , ३।३।१७०

"आवश्यकम्िति। मनोज्ञादित्वाद्()वुञ्। "उपाधिरयम्िति। प्रत्ययार्थविशेषणमित्यर्थः। "नोपपपदम्" इति। उपपदत्वे तु कारी, हारीति रूपं नस्यादित्यभिप्रायः।"ओरावश्यके"३।२।१२५ इत्यत्र प्रतिपादितमेवावश्यमुपाधिः, नोपपदमिति;तदिहापि तद्वदेवोपाधिकत्वमावश्यकस्य वदितव्यम्। तेन सह निर्द्देशादाधमण्र्यमप्युपाधिरेव, नोपपदमिति। यद्यावश्यकमपाधिर्नोपपदम्, "उपपदमतिङ्"२।२।१९ इति समासो न स्यात्, न चान्यल्लक्षणमस्ति येनेह समासः स्यादिति यो मन्येत्, तं प्रत्याह-- "मयूरव्यंसकादित्वात् समासः" इति "सहरुआं दायी"इति।"अकेनोर्भविष्यदाधमण्र्ययोः" २।३।७० इति षष्ठ()आं प्रतिषिद्धायां द्वितीयैव भवति॥