पूर्वम्: ३।३।१७०
अनन्तरम्: ३।३।१७२
 
सूत्रम्
कृत्याश्च॥ ३।३।१७१
काशिका-वृत्तिः
कृत्याश् च ३।३।१७१

आवश्यकाऽधमर्ण्ययोः इति वर्तते। कृत्यसञ्जाकाश्च प्रत्यया आवश्यकाऽधमर्ण्ययोरुपाधिभूतयोः धातोर् भवन्ति। भवता खलु अवश्यं कटः कर्तव्यः, अवश्यं करणीयः, अवश्यं कार्यः, अवश्यं कृत्यः। आधमर्ण्ये भवताशतं दातव्यम्। सहस्रं देयम्। किमर्थम् इदम्, यावता सामाग्येन विहिता अस्मिन्नपि विषये भविस्यन्ति? विशेषविहितेन णिनिना बाध्येरन्। कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः? तत्र केचिदाहुः, भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इह उदाहरणम् इति।
न्यासः
कृत्याश्च। , ३।३।१७१

"किमर्थम्ित्यादि चोद्यम्। "विशेषविहितेन"इति परीहारः।"कत्र्तरि"इत्यादिना परीहारविघटनञ्च। "केचित्ित्यादिना परकीयमतेन परोहारसमर्थनम्। "भव्यगेयम्िति। "समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वत्र्तन्ते" (शा।प।८५) इति भव्यगेयादयः शब्दा अवयवभूतेषु कृत्येष्विह वत्र्तन्ते। "कर्त्तृवाचिनः"इति। भव्यगेयादिसूत्रेणैषां पक्षे कत्र्तरि निपातनात्। योगविभाग उत्तरार्थः॥