पूर्वम्: ३।३।१७२
अनन्तरम्: ३।३।१७४
 
सूत्रम्
आशिषि लिङ्लोटौ॥ ३।३।१७३
काशिका-वृत्तिः
आशिषि लिङ् लोटौ ३।३।१७३

आशंसनम् आशीः, अप्रप्तस्य इष्टस्य अर्थस्य प्राप्तुम् इच्छा। प्रकृत्यर्थविशेषणं च एतत्। अशीर्विशिष्टे ऽर्थे वर्तमानाद् धातोः लिङ्लोटौ प्रत्ययौ भवतः। चिरं जीव्याद् भवान्। चिरं जीवतु भवान्। आशिषि इति किम्? चिरं जीवति देवदत्तः।
लघु-सिद्धान्त-कौमुदी
आशिषि लिङ्लोटौ ४१२, ३।३।१७३

बाल-मनोरमा
आशिषि लिङ्?लोटौ ४४, ३।३।१७३

आशिषि लिङ्। आशिष्यपीत्यर्थः। आशासनमासीः, इष्टप्राप्तीच्छा।

तत्त्व-बोधिनी
आशिषि लिङ्लोटौ ३५, ३।३।१७३

ननु विध्यादिसूत्र एव संप्रश्नप्रार्थनाशीःष्वित्युच्यतां किमनेन पृथक्सूत्रकरणेनेति चेत्। अत्राहुः--- इह हि "क्तिच्क्तौ चे"त्युत्तरसूत्रार्तमाशिषीति तावदावश्यकम्। लिङ्लोटावपीहैव विधेयौ, विध्यादिसूत्रे आशीग्र्रहणे हि "स्मे लो"डित्यादिना स्वविषये परत्वादद्बाधः स्यात्। सिद्धान्ते तु परत्वादेष विधिः "स्मे लो"रडित्यादेर्बाधक इति महान्विशेष इति॥