पूर्वम्: ३।३।१७
अनन्तरम्: ३।३।१९
 
प्रथमावृत्तिः

सूत्रम्॥ भावे॥ ३।३।१८

पदच्छेदः॥ भावे ७।१ ११२ घञ् ? धातोः ? प्रत्ययः ? परश्च ?

अर्थः॥

भावे धात्वर्थे वाच्ये धातोः घञ् प्रत्ययः भवति

उदाहरणम्॥

पाकः, त्यागः, रागः
काशिका-वृत्तिः
भावे ३।३।१८

भावे वाच्ये धातोः घञ् प्रत्ययो भवति। पाकः। त्यागः। रागः। क्रियासामान्यवाची भवतिः। तेन अर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति। धात्वर्थश्च धातुना एव उच्यते। यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्ययाः विधीयन्ते। पुंलिङ्गएकवचनं च अत्र न तन्त्रं, लिङ्गान्तरे वचनान्तरे ऽपि च अत्र प्रत्यया भवन्त्येव। पक्तिः, पचनम्, पाकौ, पाकाः इति।
लघु-सिद्धान्त-कौमुदी
भावे ८५४, ३।३।१८

सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥
न्यासः
भावे। , ३।३।१८

"रागः" इति। "रञ्जेश्च" ६।४।२६ "घञि च भावकरणयोः" ६।४।२७इत्यनुनासिकलोपः। ननु च "भावे" इति भवतिनायं घञन्तेन निर्देशः क्रियत इति भवतिविषय एव प्रत्ययार्थनिर्द्देशः कृतो भवति, ततश्च भवतेर्यो भावस्तस्मिन्नेव वाच्ये प्रत्ययः स्यात्, स च भवतेरेवोत्पद्यमानेन प्रत्ययेन शक्योऽभिधातुम्, अतस्तत एव प्रत्ययेन भवितव्यम्, तत्कथं पाकस्त्यागो राग इति पच्यादिभ्यो भवति? अत आह-- "क्रियासामान्यवाची" इत्यादि। क्रियासामान्यं हि सर्व धात्वर्थानुगतं भवतेरर्थः। तेन क्रियासामान्यवाचिनाऽर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति, अतः पच्यादिभ्योऽपि प्रत्ययो भवतीत्यभिप्रायः। ननु धात्वर्थः पूर्वापरीभूतोऽपरिनिष्पन्नः, ततो यदि तत्र वाच्ये प्रत्ययो भवति तस्यासत्त्वभूतत्वाल्लिङ्गसंख्याभ्यां प्रत्ययार्थस्य सम्बन्धो न सिद्ध्यति, तत आह-- "धात्वर्थश्च" इत्यादि। एवकारः प्रत्ययव्यवच्छेदार्थः। धातुनैवोच्यते धात्वर्थः, न तु प्रत्ययेन। कथं तर्हि घञादयो विधीयन्त इत्यत आह-- "यस्तस्य" इत्यादि। तस्य धात्वर्थस्य सिद्धता निष्पन्न्ता नाम यो धर्मस्तत्र घञादयः प्रत्यया विधीयन्ते, ततो युक्तः प्रत्ययार्थस्य लिङ्गसंख्यायोगः। तस्य यो धर्मस्तस्य सत्त्वभूतत्वादित्यर्थः। भाव इति-- इहि पुंल्लिङ्गेनायं निर्द्देश एकवचनेनन च। तेन पुंल्लिङ्ग एव बावे एकवचन एव प्रत्ययाः स्युः। न लिङ्गान्तरयुक्ते नापि वचनान्तरे। एवञ्च सति "स्त्रियां क्तिन्" ३।३।९४ इत्यत्र "भावे" "स्त्रियाम्िति चैतयोः सामानाधिकरण्यं नोपपद्यते, वैयधिकरण्यं हि स्यात्। ततः स्त्रियां भावे क्तिन्प्रत्ययो न स्यात्, अर्थान्तर एव कर्मादौ स्यात्। भावे च पुंल्लिङ्गे पाकौ पाका इत्यत्रैकवचनं स्यात्। यथाजातीयकं ह्रर्थमुपादातुं समर्थो भावशब्दस्तथाजातीयकेऽर्थे प्रत्ययेन युक्तं भवितुं नान्यत्रेत्यत आह-- "पुंल्लिङ्गमेकवचनं चात्र न तन्त्रम्" इति। सर्वलिङ्गसंख्यासम्बन्धयोग्यं प्रतातिपदिकार्थसामान्यनिमित्तं प्रत्ययनिमित्तत्वेनोपादीयते, तदेव प्रधानम्, न लिङ्गं नापि वचनम्। तत्र प्रातिपदिकार्थसामान्यं विना लिङ्गवचनाभ्यां न शक्यं निर्द्देष्टुमिति नान्तरीयकत्वात् तयोरुपादानम्। प्रतीते तु तस्मिन् प्रातिपदिकार्थसामान्यचरितार्थत्वाल्लिङ्गवचने लिङ्गान्तरे च प्रत्यया भवन्त्येव। "पक्तिः" इति। भावे "स्त्रियां क्तिन्" ३।३।९४। "पक्वम्" इति। "नुपंसके भावे क्तः" ३।३।११४। "पचनम्" इति। "ल्युट् च" ३।३।११५ इति ल्युट्। अत्रापि यदि भावे पुल्लिङ्गस्तन्त्रं स्यात्, ततो भावनपुंसकशब्दयोः सामानाधिकरण्यानुपपत्तेर्वैयधिकरण्यं स्यात्, ततश्च भावे नपुंसके ल्युण्न स्यात्, अर्थान्तर एव तु स्यात्। भावे च पुंल्लिङ्गे पचनमित्यस्य तुल्यत्वाच्चोद्यपरिहारस्योपन्यासः, अन्यथा ह्रन्यदेव भावग्रहणमधिकृत्य ल्युटो विधानाददमिहानुपन्यसनीयमेव स्यात्। "पाकौ" इत्यादिकं वचनान्तरे भावप्रत्ययस्योदाहरणम्॥