पूर्वम्: ३।३।१
अनन्तरम्: ३।३।३
 
सूत्रम्
भूतेऽपि दृश्यन्ते॥ ३।३।२
काशिका-वृत्तिः
भूते ऽपि दृश्यन्ते ३।३।२

पूर्वत्र वर्तमानाधिकाराद् भूतार्थम् इदं वचनम्। भूते काले उणादयः प्रत्यया दृश्यन्ते। वृत्तम् इदं वर्त्म। चरितं तदिति चर्म। भसितं तदिति भस्म। दृशिग्रहणं प्रयोगानुसारार्थम्।
न्यासः
भूतेऽपि दृश्यन्ते। , ३।३।२

"पूर्वत्र वत्र्तमानात्िति। अथ पूर्वत्र वत्र्तमानग्रहणं कस्मान्न निवर्त्तितम्, युक्तं हि तत् तत्र निवर्त्तियितुम्, तथा हि-- त()स्मस्तत्र निवृत्ते सतीदं न कत्र्तव्यम्? नैतदस्ति;अवश्यमैतत् कत्र्तव्यम्,यस्मात् केचिद्भूत एवेष्यन्ते। यदिच पूर्वत्र वत्र्तमानग्रहणानुवृत्तिर्न स्यात्,भविष्यत्यप्युणादयो न स्युः। "भविष्यति गम्यादयः" ३।३।३ इत्येकं तु नियमार्थं विज्ञायेत-- भविष्यत्येव गम्यादयैति। तस्मात् पूर्वत्रानुवत्र्तयितव्यं वत्र्तमानग्रहणम्। "वत्र्म" इति। "आतो मनिम्"३।२।७४ इत्यनुवत्र्तमाने "अन्येभ्योऽपि दृश्यन्ते" ३।२।७५ इति मनिन्प्रत्ययः।"नेड् वशि कृति" ७।२।८ इतीट्()प्रतिषेधः। "भस्म" इति। "भस भत्र्सनदीप्त्योः" (धा।पा।११००)। "दृशिग्रहणम्" इत्यादि। विशिष्टप्रयोगमनुसृत्य यत्र शिष्टाः प्रयुज्यते तत्र भूते प्रत्ययः कत्र्तव्यः,न तु सर्वत्रेति दृशिग्रहणेनायमर्थः प्रतिपादित इति दर्शयति॥
तत्त्व-बोधिनी
भूतेऽपि दृश्यन्ते १५०४, ३।३।२

भूतेऽपि दृश्यन्ते। नन्वेवं वर्तमानग्रहणं च "उणादयो बहुल"मित्यत्र नानुवर्त्त्यताम्, एतच्चोत्तरसूत्रं च त्यज्यताम्। अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः-- "बाहुल्येन वर्तमाने भवन्ति, भूतभविष्यतोस्तु क्वचिदेवे"ति विवेकप्रदर्शानयेदमिति।