पूर्वम्: ३।३।२७
अनन्तरम्: ३।३।२९
 
सूत्रम्
निरभ्योः पूल्वोः॥ ३।३।२८
काशिका-वृत्तिः
निरभ्योः पूल्वोः ३।३।२८

पू इति पूङ्पूञोः सामान्येन ग्रहणम्। लूञ् छेदने। यथासङ्ख्यम् उपसर्गसम्बन्धः। निरभिपूर्वयोः पूल्वोर् धात्वोः घञ् प्रत्ययो भवति। निष्पावः। अभिलावः। निरभ्योः इति किम्? पवः। लवः।
न्यासः
निरभ्योः पूल्वोः। , ३।३।२८

"सामान्येन ग्रहणम्" इति। विशेषानुपादानात्। "यथासंख्यमुपसर्गसम्बन्धः" इति। निसोपसर्गेण पुवः सम्बन्धः, अभिना लूञः। ननु च पूञ्()पूङ्लूञस्त्रयो धातवः, उपसर्गौ द्वौ, अतो वैषम्याद्यथासंख्येन न भवितव्यम्? पूरूपमुत्सृष्टानुबन्धसामान्यमेकमेव, ततो नास्ति वैषम्यमित्यदोषः॥