पूर्वम्: ३।३।३०
अनन्तरम्: ३।३।३२
 
सूत्रम्
यज्ञे समि स्तुवः॥ ३।३।३१
काशिका-वृत्तिः
यज्ञे समि स्तुवः ३।३।३१

यज्ञविषये प्रयोगे सम्पूर्वात् स्तौतेर् घञ् पर्त्ययो भवति। संरतावः छन्दोगानाम्। समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः इत्युच्यते। यज्ञे इति किम्? संस्तवः छात्रयोः।
न्यासः
यज्ञे समि स्तुवः। , ३।३।३१

"समेत्य स्तुवन्ति यस्मिन् देशे" इत्यादिना संस्तावशब्दस्याधिकरणसाधनत्वं दर्शयति॥
तत्त्व-बोधिनी
यज्ञे समि स्तुवः १५२३, ३।३।३१

यज्ञे समि। अधिकरणे ल्युटोऽपवादोऽयं घञ्।