पूर्वम्: ३।३।३३
अनन्तरम्: ३।३।३५
 
सूत्रम्
छन्दोनाम्नि च॥ ३।३।३४
काशिका-वृत्तिः
छन्दोनाम्नि च ३।३।३४

वौ स्त्रः इति वर्तते। विपूर्वात् स्तृनातेः छन्दोनाम्नि घञ् प्रत्ययो भवति। वृत्तम् अत्र छन्दो गृह्यते यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्रह्मणम् , नामग्रहणात्। विष्टारपङ्क्तिः छन्दः। विष्टारबृहती छन्दः। विष्टारपङ्क्तिशब्दो ऽत्र छन्दोनाम, न घञनतं शब्दरूपम्। तत्र त्ववयवत्वेन तद् वर्तते। छन्दोनाम्नि इत्यधिकरणसप्तम्येषा।
न्यासः
छन्दोनाम्नि च। , ३।३।३४

छन्दःशब्दोऽयमस्त्येव मन्त्रब्राआहृणे, अस्त्यन्यदक्षराणामित्ताविशिष्टवृत्ते यस्य गायत्र्यादयो विशेषाः। तदिह कतरस्तदर्थो गृह्रते? इत्याह-- "वृत्तम्" इत्यादि। अत्रैवोपपत्तिमाह-- "नामग्रहणात्" इति। यद्यत्र मन्त्रब्राआहृणमिष्टं स्यान्नामग्रहणं न कुर्यात्, छन्दसीत्येव ब्राऊयात्। एवमपि ह्रुच्यमाने मन्त्रब्राआहृणग्रहणं लभ्यत एव, यथा-- "बहुलं छन्दसि" २।४।३९ इत्यादौ वाक्ये। तस्मन्नामग्रहणाव्()वृत्तमिह च्छन्दो गृह्रते। "विष्टारपङ्क्तिः" इति। "छन्दोनाम्नि च" ८।३।९४ इति षत्वम्। विष्टारशब्द एवात्र घञन्तश्छन्दोनामेति कस्यचिद्()भ्रान्तिः स्यात्, तन्निराकरणायाह-- "विष्टारपङ्क्तिशब्दोऽत्र" इत्यादि। तत्र = विष्टारपङ्क्तिशब्दे। "अवयवत्वेन वत्र्तते"इति। घञन्तं शब्दरूपमिति सम्बन्धनीयम। यदि घञन्तं शब्दरूपं न च्छन्दोनाम, किन्तु विष्टारपङ्क्तिशब्दः, तत्र घञन्तरूपमवयत्वेन वत्र्तते, एवं तर्हि "छन्दोतत्कथमुन्नीयते? अस्य हि छन्दोनाम्नि गम्यमान इत्येषोऽर्थः,प्रत्ययान्तं छन्दोनाम भवतीति यावत्। एवञ्चार्थ एवं सति नोपपद्यत इत्याह-- "छन्दोनाम्नीत्यधिकणसप्तम्येषा"इति। एतेन च्छन्दोनाम्नि प्रत्ययान्तस्याधिकरणभूते प्रत्यययो भवतीत्ययमत्रार्थो वेदितव्यः,न च्छन्दोनाम्नि गम्यमान इत्येष इति दर्शयति॥
तत्त्व-बोधिनी
छन्दोनाम्नि च १५२४, ३।३।३४

छन्दो। शब्दविषयत्वात्पूर्वेणाऽप्राप्ते वचनम्। केचित्तु "प्रस्तारपङ्क्ति"रित्यादिप्रयोगानुरधेनात्र वाविति नानुवर्तयन्ति।