पूर्वम्: ३।३।३५
अनन्तरम्: ३।३।३७
 
सूत्रम्
समि मुष्टौ॥ ३।३।३६
काशिका-वृत्तिः
समि मुष्टौ ३।३।३६

ग्रहः इत्येव। समि उपपदे ग्रहेर् धातोः घञ् भवति, मुष्टिविषयश्चेद् धात्वर्थो भवति। मुष्टिः अङ्गुलिसन्निवेशः। अहो मल्लस्य सङ्ग्राहः। अहो मुष्टिकस्य सङ्ग्राहः। दृढमुष्टिता आख्यायते। मुष्टौ इति किम्? सङ्ग्रहो धान्यस्य।
न्यासः
समि मुष्टौ। , ३।३।३६

ग्रहेः क्रियावाचित्वात् मुष्टेश्चाक्रियात्मकत्वात् तत्र ग्रहेर्न सम्भवति, तस्मान्मुष्टिग्रहे योऽर्थस्तस्य विषयो विज्ञायत इत्याह-- मुष्टिविषयश्चेद्वात्वर्थो भवति" इति। अस्त्येवायं मुष्टिशब्दः परिमाणे--शाकस्य मुष्टिरिति, अस्त्यङ्गुलीनां रचनाविशेषे, यथा-- हन्ति मुष्टिनेति,ततर् यदीह परिमाणवृत्तेग्र्रहणं स्यादस्य सूत्रस्य वैयथ्र्यं स्यात्, "परिमाणाख्यायां सर्वेभ्यः" ३।३।२० इत्येव सिद्धत्वात्। तस्मादङ्गुलीनां रचनाविशेषवृत्तेग्र्रहणं विज्ञायत इत्याह-- "मुष्टिरङ्गुलिसन्निवेशः" इति।सन्निवेशः = रचनाविशेषः। "अहो मल्लस्य संग्रहः"इति। मुष्टेर्दाढर्()मित्यर्थः। अत एवाह-- "दृढमुष्टिताऽ‌ऽख्यायते" इति।