पूर्वम्: ३।३।३७
अनन्तरम्: ३।३।३९
 
सूत्रम्
परावनुपात्यय इणः॥ ३।३।३८
काशिका-वृत्तिः
परावनुपात्यय इणः ३।३।३८

परिशब्दे उपपदे इणो धातोः घञ् प्रत्ययो भवति, अनुपत्यये गम्यमाने। क्रमप्राप्तस्य अनतिपातो ऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः। अनुपात्यये इति किम्? कालस्य पर्ययः। अतिपातः इत्यर्थः।
न्यासः
परावनुपात्यय इणः। , ३।३।३८

"अनतिपातः" इति। अनितक्रम इत्यर्थः। "अतिपात इत्यर्थः" इति। अतिक्रम इत्यर्थः॥
तत्त्व-बोधिनी
परावनुपात्यय इणः १५२७, ३।३।३८

परावनु। अत्र व्याचख्युः--द्विः परिग्रहणमिह व्यर्थम्। सकृदेव कर्तुं शक्यम्। तथा हि-- "परौ नियो द्यूते", "इणोऽनुपात्यये", "नावभ्रेषे"। इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र तु परावित्यनुवर्तनाच्चेष्टं सिध्यतीति भावः। ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः, तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह बाधित्वाऽयमेव घञ् भवतीति।