पूर्वम्: ३।३।३
अनन्तरम्: ३।३।५
 
सूत्रम्
यावत्पुरानिपातयोर्लट्॥ ३।३।४
काशिका-वृत्तिः
यावत्पुरानिपातयोर् लट् ३।३।४

भविष्यति इत्येव। यावत्पुराशब्दयोर् निपातयोरुपपदयोः भविष्यति काले धातोर् लट् प्रत्ययो भवति। यावद् भुङ्क्ते। पुरा भुङ्क्ते। निपातयोः इति किम्? यावद् दास्यति तावद् भोक्ष्यते। करणभूतया पुरा व्रजिष्यति।
न्यासः
यावत्पुरिनिपातयोर्लट्। , ३।३।४

"यावद्भूङ्क्ते" इति। "भुजोऽनवने" १।३।६६ इत्यत्मनेपदम्। "श्नसोरल्लोपः" ६।४।१११ त्यकारलोपः। "यावद्दास्यति तावद्भोक्ष्यते" इति। यत्परिमाणम्सय, तत् परिमाणमस्येति "यत्तदेतेभ्यः परिमाणे वतुप्" ५।२।३९ "दृग्दृशवतुषु" ६।३।८८ इत्यनुवत्र्तमाने "आ सर्वनाम्नः" ६।३।९० इत्यात्त्वम्। "पुरा व्रजिष्यति"इति। "पृ पालनपूरणयोः" (धा।पा।१४८९)। "भ्राजभास" ३।२।१७७ इत्यादिना क्विप्, "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्त्वम्, करणे तृतीयैकवचनम्। ननु चाव्युत्पन्नावेव यावत्पुराशब्दौ निपातौ, तो च व्युत्पादितौ, तो च व्युत्पादितौ, तत्र लक्षणप्रतिपदोक्तपरिभाषयैव (व्या।प।३) तयोर्निपातयोग्र्रहणं भविष्यति, तत्किमर्थं निपातग्रहणम्? मन्दबुद्धीनां प्रतिपत्तिगौरवपरिहार्थमित्येके। अस्याः परिभाषाया अनित्यत्वज्ञापनार्थमित्यपरे। अनित्यत्वज्ञापनस्य तु प्रयोजनमुत्तरत्र वक्ष्यते॥
बाल-मनोरमा
यावत्पुरानिपातयोर्लट् ६०७, ३।३।४

यावत्पुरा। यावत् पुरा इति द्वे पदे। अनयोः प्रयुज्यमानयोर्लट् स्यादित्यर्थः। लुडादेरपवादः। निश्चयं द्योतयत इति। "यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे"इत्यमरः। यावद्दास्यते तावद्भोक्ष्यते इति। यत्परिणमाणकं तत्परिमाणकमित्यर्थः। "यत्तदेतेभ्यः परिमाणे वतु"बिति वतुबन्तत्वेन निपातत्वाऽभावान्न लडिति भावः। करणभूतयेति। "पुरा यास्यती"ति प्रत्युदाहरणान्तरम्। पुर्()शब्दस्य पुरेति तृतीयान्तमिदम्। तत्स्फोरणाय करणभूतयेत्युक्तम्।

तत्त्व-बोधिनी
यावत्पुरानिपातयोर्लट् ४९८, ३।३।४

यावत्पुरा। लक्षमप्रतिपदोक्तपरिभाषाऽनित्येति निपातग्रहमेन ज्ञाप्यते। यावद्भुङ्क्त इति। निश्चितं भोक्ष्यते इत्यर्थः। यावद्दास्यत इति।अनद्यतनभविष्यति तु "यावद्दाता तावद्भोक्ते"ति प्रत्युदाहर्तव्यम्।