पूर्वम्: ३।३।४४
अनन्तरम्: ३।३।४६
 
सूत्रम्
आक्रोशेऽवन्योर्ग्रहः॥ ३।३।४५
काशिका-वृत्तिः
आक्रोशे ऽवन्योर् ग्रहः ३।३।४५

दृष्टानुवृत्तिसामर्थ्याद् घञनुवर्तते, न अनन्तर इनुण्। अव नि इत्येतयोः उअपदयोः ग्रहेर् धातोः घञ् प्रत्ययो भवति आक्रोशे गम्यमने। आक्रोशः शपनम्। अवग्राहो हन्त ते वृषल भूयत्। निग्राहो हन्त ते वृषल भूयात्। आक्रोशे इति किम्? अवग्रहः पदस्य। निग्रहश्चोरस्य।
न्यासः
आक्रोशेऽवन्योग्र्रहः। , ३।३।४५

" ग्रहवृदृ" ३।३।५८ इत्यादिना प्राप्ते वचनम्। "दृष्टानुवृत्तिसाम्थ्र्यात्" इति। प्रयोगोपस्थानेन घञोऽनुवृत्तिसामथ्र्य दृष्टम्, इनुणस्तु कल्पयितव्यम्। दृष्टसामथ्र्ययोश्च सन्निधौ दृष्टसामथ्र्यदग्रहणं न्याय्यम्। अतो घञेवानुवत्र्तत इत्येके। एवं तु "ग्रहवृदृ" ३।३।५८ इत्यादावपि सूत्रे घञेवानुवत्र्तते, नाप्। तस्मादन्यथा व्याख्यायते-- दृष्टमनुवृत्तिसामथ्र्यमधिकृतस्य यत्र तद्()दृष्टानुवृत्तिसामथ्र्यम्, तत्र पुनः स्वरितत्वम्। ततो हि शास्त्रेऽधिकृतस्य शब्दस्यानुवृत्तौ सामर्थ्ये दृश्यते। तदेतदुक्तं भवति-- घञ एव स्वरितत्वं प्रतिज्ञायते, नेनुणः। तस्मात् स्वरितत्वाद्घञेवानुवत्र्तते, नेनुणिति॥
तत्त्व-बोधिनी
आक्रोशेऽवन्योग्र्रहः १५३५, ३।३।४५

आक्रोशे। "ग्रहवृदृ" इति --अपि प्राप्तेऽयमारम्भः। अवग्रहः पदस्येति। छेदविशेष इत्यर्थः। निग्रहो--निरोधः।