पूर्वम्: ३।३।४९
अनन्तरम्: ३।३।५१
 
सूत्रम्
विभाषाऽ‌ऽङि रुप्लुवोः॥ ३।३।५०
काशिका-वृत्तिः
विभाषा आङि रुप्लुवोः ३।३।५०

आङि उपपदे रौतेः प्लवतेश्च विभाषा घञ् प्रत्ययो भवति। आरावः, आरवः। आप्लावः, आप्लवः।
न्यासः
विभाषाऽ‌ऽङि रुप्लुवोः। , ३।३।५०

रौतेः "उपसर्गे रुवः" ३।३।२२ इति नित्यं घञि प्राप्ते प्लवतेरप्युवर्णान्तत्वादपि सूत्रारम्भः॥